SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 26 अनुसन्धान ३६ ते पणवबीय अरिहं नमो जिणाणं ति एअ साहीय । अडयालीसं णेया सम्मं सुगुरूवएसेणं ॥५॥ ते पणवत्ति गाथा । ते इति प्राकृतत्वान्नपुंसकस्य पुंस्त्वम् । तानि लब्धिपदानि प्रणव-कारो मायाबीजं-हाकारोऽहमिति सिद्धबीजम् । एतत्पूर्वकं 'नमो जिणाण मिति पदम् । की अहँ नमो जिणाणं' इत्येवमादीन्यष्टचत्वारिंशत्संख्यानि सम्यक सुगुरूपदेशेन ज्ञेयानि । एतेषां नामानि माहात्म्यानि च लब्धिकल्पादवसेयानि । इह त्वाराधनविधिना पुस्तकलिखने दोष इति न लिखितानि ॥५॥ तं तिगुणेणं माया-बीएणं सुद्धसेअवन्नेणं । परिवेढिऊण परिहिइ तस्स गुरुपाउए नमह ॥६॥ तं तिगुणेणं ति गाथा । तत् - पीठादिलब्धिपदान्तं त्रिगुणेन शुद्धश्वेतवर्णेन मायाबीजेन-झाकारेण परिवेष्टयित्वा तस्य परिधौ गुरुपादुका नमत । अत्रायं भावः-सर्वयन्त्रस्योर्वं साकारं विलिख्य तस्येका[रा]त् सर्वयन्त्रपरिक्षेपरूपां रेखां त्रिर्वालयित्वा चतुर्थरेखार्द्धप्रान्ते क्रों इत्यक्षरं लिखेत् । तस्य च परिधौ गुरुपादुका लिखेत् ॥६॥ ता एवाऽऽह अरिहं-सिद्ध-गणीणं गुरु-परमा-ऽदिट्ठ-णंत-सुगुरूणं । दुरणंताण गुरूणं सपणवबीआउ ताओ अ 11७।। अरिहंसिद्धगणीणमिति गाथा । अर्हतां पादुकाः १, सिद्धानां २, गणीणंति आचार्याणां ३, गुरूणां ४, परमगुरूणां ५, अदृष्टगुरूणां ६, अनन्तगुरूणां ७, दुरणंताणंति अनन्तानन्तगुरूणां ८, इत्येवमष्टानामपि ताः पादुका: सप्रणव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229424
Book TitleSiddhchakra Yantroddhar Vidhi Vyakhya
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages6
LanguageGujarati
ClassificationArticle, Ritual, & Vidhi
File Size289 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy