________________
June 2006
झायह अडदलवलये सपणवमायाइए सवाहंते । सिद्धाइए दिसासुं विदिसासुं दंसणाई (ई )ए ॥ २ ॥
अथ झायह त्ति । इति पीठं लिखित्वा तत्पार्श्वे वृत्तं मण्डलं लिखेत् । तदुपरि अष्टदलकमलाकारं वलयं लिखेत् । तत्राऽष्टदलवलये चतुर्दिक्पत्रेषु प्रणवमायादिकान् स्वाहान्तान् सिद्धादिकान् चतुर्थीबहुवचनान्तान् इत्याम्नायः । ईदृशान् ध्यायेत् । तत्र प्रणव:- कारो, माया-कार:, तावादौ येषां ते तान् । ना सिद्धेभ्यः स्वाहा | पूर्वस्याम् । आचार्येभ्यः स्वाहा । दक्षिणस्याम् । उपाध्यायेभ्यः स्वाहा । पश्चिमायाम् । सार्वसाधुभ्यः स्वाहा । उत्तरदिग्दले लिखेत् ॥ तथैव विदिक्षु दर्शनादीनि चत्वारि पदानि क्रमेण लिखेत् - दर्शनाय स्वाहा । आग्नेयकोणे । ज्ञानाय स्वाहा । नैर्ऋत्याम् । चारित्राय स्वाहा । वायवे (व्याम्) । तपसे स्वाहा । ईशानकोणे ॥ एवमष्टदलं प्रथमवलये
॥२॥
25
बीयवलयम्मि अडदिसि दलेसु साणाहए सरह वग्गे । अंतरदले असु झायइ परमिट्ठपढमपए ॥ ३ ॥ बीवलयमिति गाथा । प्रथमवलयबाह्यतो मण्डलाकारं षोडशदलं न्यसेत् । तत्र द्वितीयवलयेऽष्टस्वेकान्तरितदिग्दलेषु सानाहतान् - अनाहतबीजसहितान् अष्टौ वर्गान् - 'अ-क-च-ट-त-प-य-श' रूपान् क्रमेण लिखेत् । तत्र प्रथमवर्गे षोडश वर्णाः । कवर्गादिषु पञ्चसु प्रत्येकं पञ्च पञ्च वर्णाः । अन्तिमवर्णद्वये प्रत्येकं चत्वारो वर्णाः । अंतरत्ति । अष्टसु वर्गाणामन्तरदलेषु परमेष्टिप्रथमपदान् (नि) ध्याय ( ये ) त् । अष्टस्वेव प्रत्येकं नमो अरिहंताणं' इत्येकमेव पदं लिखेदित्यर्थः । एवं द्वितीयवलए ( ये ) ॥३॥
तई (इ) यवलए वि अडदिसि दिट्टंत अण( णा ) हएहिं अंतरिए । पायाहिणतित्थ (य? ) पंतिआहिं झाएह दलट्ठिएएए ॥ ४ ॥
तईयवलयम्मित्ति । तृतीयवलयेऽष्टसु दिक्षु अष्टावनाहतान् लिखेत् । तांश्च त्रिपङ्क्तिव्यापकान् लिखेत् । द्वयोर्द्वयोरन्तरे द्वे द्वे लब्धिपदे, एवमष्टस्वप्यन्तरेषु षोडश लब्धिपदानि प्रथमपङ्क्तौ । एवं षोडशैव द्वितीयपङ्क्तौ । एवमेव च तृतीयपङ्क्तौ । प्रादक्षिण्येन त्रिभिः पङ्क्तिभिरष्टचत्वारिंशल्लब्धिपदानि ध्यायत ||४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org