________________ September-2006 19 मत्स्ये हंसे सारसे च सरोट: परिकथ्यते // इति केशवः / राहुस्तमस्सरोटाटः // इति काण्वः / केतोस्तु राहुशिरःपृथक्मात्रविवक्षया विवक्षितत्वमत एव नेहोचितम् (नेहोक्तम्) / खाटश्च पाटश्च सरोटाटश्च ते खाटपाटसरोटाटाः / पुनः कथम्भूताः ?सशक्तयः / शक्तिभिः षोडशमातृकादिभिः सह वर्तमाना इत्यर्थः / वा स्वस्वपत्नीभिः सह वर्तमानाः, वा अष्ट-दुर्गादिशक्तिभिः सहेति / इत्यनेन स्त्रीणां परदुःखासहिष्णुता सुखगन्तृत्वभावश्च सूचितः / स्वदुःखप्रहाणेच्छानुकूलतया तासामत्राऽतिप्रसङ्गश्च / एतद्विशेष्यविशेषणावच्छिन्नसूर्यादय: वारनाटाः स्वस्वदिनेषु नाटयन्ति वा स्वयमेव नटन्ति-इति वारनाट:(टाः), नः अवन्तु / कुतो ? यतः सशक्तयः / अत: शक्त्या सह वर्तमाना नो-अस्मानपि पालयन्तु इति सङ्क्षपान्वयः // Jain Education International For Private & Personal Use Only www.jainelibrary.org