________________
18
अनुसन्धान ३६
बुधः कीदृशः ? - गोट: - गवा हरिदश्वेनाऽटति गच्छतीति गोट: बुधः । गौरिन्द्रिये हये चापे सूर्ये पृथ्व्या(व्य)ङ्गविस्तरे ।
इत्यनेकार्थध्वनिमञ्जर्याम् । हरिद्रूपो बुधो गोट ।
इति शास्वतः (शाश्वतः)। गुरुः कीदृश: ? अजाट:-अजेन पीतकरिणाऽटति गच्छतीति अजाट: । लीलालपेज्य: अजो वै पीतनागकः ।।
इति काव्योहारकः । बृहस्पतिरजोटाऽपि ।।
इति काण्डः । हयाटश्च आखाटश्च सिंहाटश्च गोटश्च अजाटश्च ते हयाटाखाटसिंहाटगोटाजाटाः ।
____ शुक्रः कीदृशः ? - खाटः - खेन स्वे(श्वेताश्वेनाऽटति गच्छतीति
शतका
खाट: ।
खशब्दो नागके सौराजाकाशे श्वेतवाजिनीति
शब्दार्णवः । खाट: शुक्रस्सुराचार्यो भार्गवश्चोशनाः कविः ।।
इति हलायुधः । शनिः कीदृशः ? पाट:-पेन खञ्जपादेनाऽटति वा पेन महिषेणाऽटति गच्छतीति पाट: । पस्तु पद्मे खरे देहे पादखओ तु वर्वरे ॥
इति निखिलार्थः ।। पाटस्तु गवि ताम्बूले शनौ पारग इत्यपि ।।
इथि शब्दार्णवः । राहुः कीदृशः ? - सरोटेन मीनेनाऽटति गच्छतीति सरोटाट: राहुः । सरसि वा तदेव अटतीति सरोट: मीनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org