SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ September-2006 17 सटीकं हयाटाखाट-काव्यम् ॥ ८ ॥ श्रीवीतरागाय नमः ॥ हयाटाखाट-सिंहाटागोटाजाटास्सशक्तयः । खाट-पाट-सरोटाटा वारनाटा ह्यवन्तु नः ॥१॥ अस्य ध्वन्यर्थः कश्चिदात्मानं प्रति स्वाशिषमुररीकृत्य वदति-ते वारनाटाः सूर्यादयोऽष्टसङ्ख्यावच्छिन्नग्रहाः नः-अस्मान् अवन्तु-रक्षन्तु वा पालयन्तु । __ कथम्भूतास्ते ? हयाटाखाटसिंहाटागोटाजाटाः - हयेन सप्तास्यविलक्षणेनाऽटति लोकं परिक्राम्यति वाऽऽक्राम्यतीति हयाटः सूर्यः । तदेव कोशेन वाच्यम्मार्तण्डः काश्यपि सूर्यो हयाटो लोकतापनः । इति शब्दार्णवेन । चन्द्रमाः कीदृशः ? आखाटः - आखेन करणीभूतेन मृगेणाऽटति सूर्यस्य पृष्ठि(ष्ठ)तो गच्छतीति आखाटश्चन्द्रः । आखस्तु मृगरेवत्योराखुर्मूषकवाचकः । इत्यपि शब्दार्णवे स्पष्टम् । हिमांशुश्चन्द्रमा दोषी मृगाटाखाट इत्यपि । इति हलायुधः । भौमः कीदृशः ? -सिंहाटः-शृङ्गादिभिर्भूतलं हिनस्ति वा ताडयति वा उत्खनतीति सिंहः वृषभः । तेन सप्तर्षिमध्याधोदेशेनाऽटति गच्छतीति सिंहाटो भौमः । शृङ्गी कर्दमकोऽत्यागी सिंहो वृषभ इत्यपि । इति धनञ्जयः । कुजः कुसूनुः सिंहाटो भौमो भूमिसुतश्च सः । इति सार्वः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229392
Book TitleHayatakhat Kavya Satik
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages4
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size245 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy