________________
December - 2003
१५
प्रसूयत इति प्रसूति:-सन्ततिः । स्वस्य वीर्यं स्ववीर्यम् । गुप्यते स्मेति गुप्ता । स्ववीर्येण गुप्ता स्ववीर्यगुप्ता, स्ववीर्येणैव रक्षिता । न हि स्वनिर्वाहस्य परापेक्षेति भावः ।
वाच्यपरिवर्तनं त्वेवम् - व्रताय धेनोरनुचरः स शेषमप्यनुयायिवर्ग न्यषेधीत् । तस्य शरीररक्षया(रक्षा) चाऽन्यतो न सूयते । हि मनोः प्रसूत्या स्ववीर्ये(4)गुप्तया भूयते ॥
व्रतपालनार्थमेवाऽरण्ये गामनुगच्छनृपतिः प्राग्महिषी निवर्तयामास । पश्चादन्यानपि सेवकाननुचलनान्निवारितवान् । एकाकिनोऽपि तस्य दिलीपस्य निजरक्षणविधौ काऽपि चिन्ता न बभूव । यतो मनोः कुलधराः नृपाः स्वबाहुबलेनैव सर्वत्र निजरक्षां कुर्वन्ति, इति सरलार्थः ॥४||
आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥५॥
आस्वादवद्भिरिति । सम्यग् राजतेऽसौ सम्राट-मण्डलेश्वरः । "येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः । स राजा । आस्वादनमास्वादः । आस्वादो विद्यते एषां आस्वादवन्तः, तैः आस्वादवद्भिः- रसवद्भिः स्वादयुक्तैरित्यर्थः । तृणानां घासानाम् । "शष्पं बालतृणं घास:" इत्यमरः । केन-मुखेन वलन्त इति कवलाः । 'कै (क) शब्दे, कच-दीप्तौ' वा, 'डे' कः । 'को ब्रह्मणि, वायौ, आत्मनि, यमे, दक्षप्रजापतौ, सूर्ये, अग्नौ, विष्णौ, काले, कामग्रन्थौ, राजनि, मयूरे, देहे, मनसि, धने, प्रकाशे, शब्दे च पुं० । मुखे, शिरसि, जले, रोगे च नपुं०' । तैः कवलैःग्रासैः । "ग्रासस्तु कवलः पुमान्" इत्यमरः । कण्डूयनानीति कण्डूयनानि । तैः कण्डूयनैः । दशन्तीति दंशाः । दंशानां-वनमक्षिकाणां निवारणानि दंशनिवारणानि, तैः दंशनिवारणैः । "दंशस्तु वनमक्षिका" इत्यमरः । विशेषेण आ समन्तात् हन्यन्ते स्मेति व्याहतानि । न व्याहतानि अव्याहतानि, तैः अव्याहतैः, अप्रतिहतैः । स्वैरं गमनानि स्वैरगतानि । अथवा ईरणं ईरः, स्वस्य ईरः येषु तानि स्वैराणि । अथवा स्वेन स्वातन्त्र्येण ईरते इति वा स्वैराणि । स्वैराणि च तानि गतानि च १. अम० द्वि० क्षत्रियवर्गे - १४७४ । २. अम० द्वि० वनौषधिवर्गे - ९८३ । ३. अम० द्वि० वैश्यवर्गे - १८१५ । ४. अम० द्वि० सिंहादिवर्गे - १०४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org