________________
अनुसंधान- २६
गोः रूपं गोरूपम् | 'श्री सि०हे० शब्द०' मते गोरूपं धरतीति गोरूपधरा । 'पाणिनीय' मते तु धरतीति धरा, गोरूपस्य धरा गोरूपधरा, तां गोरूपधराम्। ऊर्वी वसुन्धराम् । “वसुधरो (सुधो) व वसुन्धरा" इत्यमरः । इव । जुगोप- ररक्ष । भूरक्षणप्रयलेनेव ररक्षेति भावः ।
१४
धेनुपक्षे न अधरा अनधरा, अनधरा अधरा भूताः अधरीभूता इति 'श्रीसिव्हे०श०' मतेन । 'पाणिनीय' मतेन तु अनधरा अधराः सम्पद्यमाना अधरीभूताः । पयसाऽधरीभूताः चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुः समुद्रा, तां पयोधरीभूतचतुः समुद्राम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥
वाच्यपरिवर्तनं त्वेवम् - निवर्त्य राज्ञा दयिता दयालुना सा सौरभेयी सुरभिणा यशोभिः पयोधरीभूतचतुःसमुद्रा जुगुपे गोरूपधरेवोर्वी ॥
परमदयालू राजा प्रियतमां सुदक्षिणां सुदूरगमनान्निवर्तयामास, स्वयं च तां नन्दिनीं सर्वभावेन गोसुमारेभे । मन्ये नन्दिनीरूपेण प्राप्तां चतुर्भिः स्तनैरिव चतुभिर्जलधिभिर्युक्तां साक्षादूर्वी पृथ्वीमिव स जुगोप, इति सरलार्थः ॥३॥ व्रताय तेनाऽनुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चाऽन्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥४॥ व्रतायेति । व्रताय न तु जीवनायेति भावः । धयति तामिति धेनुः । अन्तर्भावितण्यर्थत्वे धयति सुतानिति वा धेनुः । तस्याः धेनोः । अनु पश्चाच्चरतीत्यनुचरस्तेनाऽनुचरेण । तेन दिलीपेन । शिष्यते इति शेष अवशिष्ट: । 'शेषः अवशेषे अनन्ते सर्पराजे सर्पभेदे बलदेवे गजे विष्णुमूर्तिभेदे गुणीभूते च' । शिष्धातोर्घञि शेषः । अत्र त्ववशेषार्थे । अनुयान्तीत्येवं शीला अनुयायिनः, तेषामनुयायिनां वर्गः अनुयायिवर्गः अनुचरवर्गः । न्यषेधि - निवर्तितः । शेषत्वं सुदक्षिणापेक्षया ।
-
कथं तर्ह्यात्मरक्षणं तस्याऽत आह, न चेति । तस्य दिलीपस्य । शृणाति शीर्यते वा तच्छरीरं देहः । " गात्रं वपुः संहननं, शरीरं वर्ष्मविग्रहः । कायो देहः" इत्यर्मरः । रक्षणं रक्षा । शरीरस्य रक्षा शरीररक्षा - देहरक्षणम् । च । अन्यस्मादिति अन्यतः - पुरुषान्तरात् । न । कुत: ? हि यस्मात्कारणात् । मनोः ।
१. अम० द्वि० भूमिवर्गे ५६२ । २. अम० द्वि० मनुष्यवर्गे - १२१४-१५ ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org