________________
December
-
2003
Jain Education International
अत्र विषये जैनशास्त्रेऽपि तथैव व्यवस्था ।
निवर्त्य । सुरभेर्गोत्रापत्यं स्त्री सौरभेयी, तां सौरभेयीं- कामधेनुसुतां नन्दिनीम् । 'आयुधादिभ्यो धृगोऽदण्डादेः' (५/१/९४ | | ) इति श्री सि० हे० श० ' सूत्रे आदिशब्देन पयसोऽपि ग्रहणात् । पयांसि धरन्तीति पयोधराः । जलधरविषधर - शशधर - विद्याधर- श्रीधर-गङ्गाधर- जटाधरप्रभृतिष्वप्येवमेव । 'पाणिनीय' मते तु 'कर्मणोऽण् (कर्मण्यण् ) [ ३|२|१||] इति सूत्रस्य बाधकत्वात् तथा न । तन्मते तु धरन्तीति धरा: । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । "स्त्रीस्तनाब्दौ पयोधरौ" इत्यमरः । न पयोधरा अपयोधराः । 'श्रीसि०हे०श०' मते अपयोधराः पयोधराः भूताः (भवन्ति स्म ) पयोधरीभूताः । 'पाणिनीय' मते तु अपयोधराः पयोधराः यथा सम्पद्यमाना (भूताः) पयोधरीभूताः । 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे च्वि:' ( ७२ १२६|| ) इति 'श्रीसि० हे० श०' सूत्रेण 'च्वि:' । 'कृभ्वस्तियोगे संपद्यकर्तरि च्वि:' [पा० ५|४|५०॥] । 'च्चिविधावभूततद्भावग्रहणं' इति वार्त्तिकोऽर्थे च्विः । 'श्री सि०हे०श०' मते 'अप्रयोगीत् ' (१|१|३७|| ) इति सूत्रेण च्वेर्लुक् । 'पाणिनीय' मते तु 'चुटु ( टू ) ' [१|३|७|] इति च्विप्रत्ययगतचकारस्येत्संज्ञा । वेरिकारस्य च इत्संज्ञायां 'वेरपृक्तस्य' [६|१|६७॥ ] इति सूत्रेण वकारस्य च लोप: । 'प्रत्ययलोपे प्रत्ययलक्षणम्' [पा० ११२६२॥] इत्यनेन व्यन्तत्त्वं कल्पनीयम् । ततश्च 'ईश्च्वावर्णस्याऽनव्ययस्य' (४।३।१२७ (१११) |) इति 'श्रीसि०हे० श०' सूत्रेण 'अस्य च्वै (च्वौ)' [ १७|४|३२||] इति 'पा०' सूत्रेण च पयोधरघटकाकारस्य ई: । 'ऊर्याद्यनुकरणच्विडाचश्च गतिः' (३|१|२||) इति 'श्रीसि०हे०श०' सूत्रेण 'ऊर्यादिच्चिडाचश्च' [ | ११४१६१ ॥ ] इति 'पा०' सूत्रेण च च्व्यन्तस्य गतिसंज्ञा । ततश्च 'गतिक्वन्यस्तत्पुरुषः' (३|१|४२॥) इति 'श्रीसि० हे० श०' सूत्रेण 'कुगतिप्रादय:' [२२|१८|| ] इति पा०' सूत्रेण च समासः । समीचीना उद्रा- जलजन्तुविशेषादयो यत्र, सह मुद्रया वेलया वर्तते इति वा समुद्रः । पयोधरीभूताश्चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुः समुद्रा, तां पयोधरीभूतचतुः समुद्राम् ऊधीभूतचतुः सागराम् । 'एकार्थं चानेकं च' (३११२२ ) इति 'श्रीसि० हे०श०' सूत्रेण त्रिपदो बहुव्रीहिः । 'अनेकमन्यपदार्थे' [२२|२४|| ] इति पा०' सूत्रेणाऽनेकपदग्रहणसामर्थ्यात् त्रिपदो बहुव्रीहिः । १. अम० तृ० नानार्थवर्गे
TI
२६६२ ।
१३
For Private & Personal Use Only
www.jainelibrary.org