________________
अनुसंधान-२६ स्मर्यते धर्मोऽनयेति स्मृतिः, मन्वादिवाक्यम् । श्रूयते धर्मोऽनयेति श्रुतिः, तस्याः श्रुतेः वेदवाक्यस्य । अर्यते इति अर्थः, तं अर्थमभिधेयम् । इव अन्वगच्छत्-अनुसृतवतीव । यथा स्मृतिः श्रुतिक्षुण्णमेवाऽर्थमनुसरति तथा साऽपि गोक्षुरक्षुण्णमेव मार्गमनुससारेत्यर्थः । पांसुलपथप्रवृत्तावपि अपांसुलानामिति 'विरोधालङ्कारो' ध्वन्यते । तल्लक्षणं चेदं कुवलयानन्दे
'आभासत्वे विरोधस्य, विरोधाभास इष्यते ।'
वाच्यपरिवर्तनं त्वेवम् - अपांसुलानां धुरि कीर्तनीयया मनुष्येश्वरधर्मपल्या खुरन्यासपवित्रपांसुः तस्याः मार्गः श्रुतेः अर्थः स्मृत्या इवाऽन्वगम्यत ॥
पावनैः खुरक्षेपैः नन्दिनी मार्गरजो निर्मलीकुर्वाणा जगाम । यथा हि स्मृतिः वेदार्थमेव सर्वदाऽनुगच्छति तथा पतिव्रताऽग्रगण्या दिलीपपत्नी सुदक्षिणा तं नन्दिनीमार्गमनुससार, इति सरलार्थः ॥२॥
निवर्त्य राजा दयितां दयालुस्तां सौरभेयी सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोमी(वी )म् ॥३॥
निवत्येति । दयते इत्येवं शीलः दयते इत्येवं धर्मा(र्मो) वा, यद्वा साधु दयते इति 'शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः' (५।२६३७१) इति 'श्री सि०' सूत्रेण 'दयि-दानगतिहिंसादहनेषु च' इति धातोः आलुच् । लज्जालुईालु-शलालुप्रभृतयस्त्वौणादिकाः । कृपालुहृदयालू मत्वर्थीयान्ताविति पूज्याः । दयालु:-कारुणिकः । “स्याद्दयालुः कारुणिक: कृपालुः" इत्यमरः । यशोभिः-कीर्तिभिः । "यशः कीर्तिः समज्ञा चे"त्यमरः । सुरभिर्मनोज्ञः । 'सुरभिः स्यान्मनोज्ञेऽपी'ति विश्वः । राजते दानदाक्षिण्यशौर्यमाधुर्यप्रजापालनादिगुणैः शोभतेऽसाविति राजा । ताम् । दय्यते रक्ष्यते स्मेति दयिता, तां दयितांप्रियाम्। "दयितं वल्लभं प्रियम्" इत्यमरः । अत्र रक्षणकर्माश्रयवाचकदयिताशब्दप्रयोगेणैवं द्योतयति यदुत 'न स्त्री स्वातन्त्र्यमर्हति' । तथा चाऽऽह मनुः - पिता रक्षति कौमरे भर्ता रक्षति यौवने ।
रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥१॥ १. अम० तृ० विशेष्यनिघ्नवर्गे - २०५४ । २. अम० प्र० शब्दादिवर्गे - ३३३ । ३. अम० तृ० विशेष्यनिघ्नवर्गे - २१३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org