________________
December - 2003
मङ्गलार्थोऽनन्तरार्थो वा, यदा तु मङ्गलार्थस्तदा मङ्गलपूविका द्वितीयसर्गप्रवृत्तिरित्यावेद्यते यदा त्वनन्तरार्थस्तदा कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरमित्यावेदितम् ।
केचिदारम्भार्थं न मन्यन्ते । कुत्रचिदधिकारार्थोऽपि । योगशास्त्रभाष्यकारेण 'अथे'त्ययमधिकारार्थ इति भाष्यव्याख्यानादधिकारार्थोऽपि ॥१॥
तस्याः खुरन्यासपवित्रपांसु-मपांसुलानां धुरि कीर्तनीया । मार्ग मनुष्येश्वरधर्मपत्नी श्रुतेरिवाऽर्थं स्मृतिरन्वगच्छत् ॥२॥
तस्या इति । पांसवो दोषा पापानि वा सन्त्यासामिति पांसुला:स्वैरिण्यः । 'स्वैरिणी पांसुला' इत्यमरः । 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः' (७।२।२१।।) इति 'श्री सि०' सूत्रेण 'सिध्मादिभ्यश्च' (५।२।९७) इति 'पाणि०' सूत्रेण च पांसुशब्दात् लच्प्रत्ययः । न पांसुला: अपांसुलाः । तासामपांसुलानां-पतिव्रतानाम् । धुर्यग्रे। कीर्तियतुं योग्या कीर्तनीया-परिगणनीया ।
ईष्ट ईशितुं शीलमस्य वेति ईश्वरः । मनुष्याणामीश्वरः मनुष्येश्वरः । 'हितादिभिः' (३।१७१॥) इति 'श्री सि०' सूत्रेण हितादेराकृतिगणत्वात्तादर्थ्यचतुर्थ्यन्तस्याऽपि समासभवनात् धर्माय धर्मार्थ वा पत्नी धर्मपत्नी । एवमश्वघासादौ सर्वत्र । 'यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास' इति 'पाणिनीय'मते तु अश्वघासादिवत् धर्मपत्नीत्यत्राऽपि तादर्थ्य षष्ठीसमासः प्रकृतिविकार- भावाभावात् । तन्मते धर्मस्य पत्नी धर्मपत्नी । यथा- "पति धर्मरतं पत्नी साध्वी शुश्रु(श्रू)षते तु या ।
नित्यं त्वनन्यहदया धर्मपत्नी तु तां विदुः ॥१॥" मनुष्येश्वरस्य धर्मपत्नी मनुष्येश्वरधर्मपत्नी । न्यसनानि न्यासाः । पूयते एभिरिति पवित्राः । खुराणां न्यासाः खुरन्यासा: । खुरन्यासैः पवित्रा: पांसवो यस्य स खुरन्यासपवित्रपांसुः, तं खुरन्यासपवित्रपांसुम्-शफनिक्षेपपूतरेणुम् । "शर्फ क्लीबे खुरः पुमान्" इत्यमरः । “रेणुद्वयोः स्त्रियो(यां) धूलिः पांसु(शुगेर्ना न द्वयो रजः" इत्यमरः । तस्याः धेनोः । मार्यतेऽन्विष्यतेऽनेनेति मार्गः । तं मार्गम्। १. अम० द्वि० मनुष्यवर्गे - १०५९ । २. अम० द्वि० क्षत्रियवर्गे - १५६६ । ३. अम० द्वि० क्षत्रियवर्गे - १६६४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org