________________
अनुसंधान-२६ स्वैरगतानि, तैः स्वैरगतैः-स्वच्छन्दगमनैश्च । तस्याः धेन्वाः । सम्यग् आराधनं समाराधनम् । तदेव परं-प्रधानं यस्य स तत्परः । समाराधने तत्परः समाराधनतत्परः-शुश्रूषासक्तोऽभूत् । समाराधनतत्परस्य विधेयविशेषणत्वात् विशेष्यात्परप्रयोगः । 'उद्देश्यवचनं पूर्वं विधेयवचनं पर' मिति न्यायात् । “तत्परे प्रसितासक्तौ" इत्यमरः ।
___वाच्यपरिवर्तनं त्वेवम्- तेन सम्राजा आस्वादवद्भिस्तृणानां कवलैः कण्डूयनैर्दशनिवारणैरव्याहतैः स्वैरगतैश्च तस्याः (नन्दिन्याः) समाराधनतत्परेणाऽऽभावि ॥
___ तस्याः ओ(भो)जनार्थं सुघासमुष्टिं प्रयच्छन् गात्रखर्जनमपनयन् दुःखकरान्दंशमशकादीन् निवारयन् स्वेच्छाविहारं चाऽनुवर्तमानः सन् सः (दिलीपः) सर्वप्रकारेण नन्दिनी सिषेवे, इति सरलार्थः ॥५॥
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धवीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥६॥
स्थित इति । पातीति पतिः । भुवः पतिः भूपतिः । तां-गां, स्थिताम् । गत्यर्थादकर्मकाच्च धातोः कर्तरि क्तप्रत्ययविधानात् अस्थादिति स्थिता, तांसतीम् । स्थितः-सन् । स्थितिरूवा॑वस्थानम् । प्रायासीदिति प्रयाता, ताम [प्रयाताम्] / प्रस्थितां सतीमुदचालीदिति उच्चलितः, प्रस्थितः सन् निषसादेति निषेदुषी । सिद्धहेममते निउपसर्गपूर्वात् सद्धातो: 'तत्र वसुकानौ तद्वत् (५।२।२॥) इति सूत्रेण 'वसु'-प्रत्यये तस्य च नामसंज्ञायां 'अधातूदृदितः' (२।४।२।।) इत्यनेन स्त्रियां 'ङीप्'-प्रत्यये 'क्वसुष्मतौ च' (२।१६१०५।।) इति क्वस उषादेशे निषेदुषी । पाणिनीय मते तु 'भाषायां सद-वस-श्रुवः' [३।२।१०८।।] इति वसुप्रत्यये 'उगितश्च' [४।२।६।।] इति ङि(ङी)पि निषेदुषी । तां निषेदुषीनिषण्णां-उपविष्टामित्यर्थः । सतीम् । आस्यतेऽस्मिन्नित्यासनमिति प्रायः सर्वत्र व्युत्पत्तिर्दृश्यते । तथा चाऽऽसनस्य भूम्यादिरों लभ्यते । तथा सति योगसत्काष्टाङ्गान्तर्गत-तृतीयाङ्गरूपासनपदवाच्यचतुरशीत्यासनमध्यवर्तिनः कस्याऽप्यासनस्य ग्रहणं न स्यात् । अत्र धीरशब्दबलात्तदेव योगाङ्गरूपमासनमिति गम्यते । तथा सति आस्तेऽनेनेत्यासतमिति व्युत्पत्तिः समीचीना । इयमेव व्युत्पत्तिर्वाचस्पतिमित्रैः १. अम० तृ० विशेष्यनिघ्नवर्गे - २०४२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org