________________ 88 July-2002 मृत्वादिलक्षणा भावरूपता यथा प्रतीयते तथाऽत्राऽपि, तथा चाऽस्तु तत्रेवाऽत्राऽपि अन्वयाभाव इति / तन्न, तद्रूपशक्तिगन्धपरिमाणादिसङ्गताया भावरूपताया अन्वयसिद्धिनिबन्धनत्वेनाऽधिकृतघटजन्यकपाल इव घटान्तरजन्यकपालेऽन्वयानापत्तेः / तत्रेवाऽत्र तथाभूताया अस्या अननुभवात् / अथ यस्मिन्नेव क्षणे कारणं विनश्यति तस्मिन्नेव क्षणे कार्य जायते / अतो नाऽभावाद् भावः, कारणादेव कार्योत्पादात् / नाप्यन्वयापत्तिः, कारणस्य निरन्वयनाशात् / तन्न / कारणकार्ययोर्विनाशोत्पादौ न कारणकार्ययोभिन्नौ / तथा सति तत्सम्बन्धित्वाभावप्रसङ्गात्, अर्थान्तरगतविनाशोत्पादवत् / किन्त्वभिन्नौ / तथा च नाशोत्पादयोः कार्यकारणभावः स्यात्, कारणकार्याव्यतिरिक्तत्वात्, तत्स्वरूपवत् / न चैतद् युक्तम्, विवक्षितयोः कारणकार्ययोर्युगपद्भावित्वेन युवतिकुचयोरिख कार्यकारणभावानुपपत्तेः / युगपद्भावश्च तयोरभिन्नकालनाशोत्पादाभिन्नत्वाभ्युपगमात् / __ अथैते उत्पादविनाशादयो न पारमार्थिकाः किन्तु कल्पिताः / न हि वस्तूनां तदतिरिक्ता काचित् क्रिया इति चेत् / तथाऽपि नाशोत्पादौ तावत् प्रतिप्राणि प्रत्यक्षेणोपलभ्येते / तौ च तुल्यकालाविति कथं भेदाभेदोद्भवा दोषाः परिहार्याः ? / ननु क्षणस्थितिधर्मा भाव एव नाशो न तु तदन्यः कश्चित् / तदुक्तम्"क्षणस्थितिधर्मा भाव एव विनाश" इति / तत् कथमन तत्कल्पनेति चेत् / तथाऽपि कारणसत्ताक्षण एव कारणविनाशक्षणः, स एव चेत् कार्योत्पादक्षणस्तदा समकालभावितया कमलनयनानयनयोरिव कथं तयोः कार्यकारणभावः स्यादिति चिन्त्यम् / अथ यदि कारणतन्नाशयोधर्मधर्मभावः परिकल्पित एवेति ब्रूषे तदा हेतुफलभावोऽपि कुत: ? कल्पितस्याऽपरमार्थतो सत्त्वेनोभयस्याऽपि धर्मिधर्मलक्षणस्याऽभावात् / न च धर्ममिव्यतिरिक्तं किञ्चिद् वस्त्वस्ति यद् हेतुः फलं वा भवेत् / न च धर्मिधर्मभावः कारणं तद्विनाशः कार्यं तदुत्पाद इत्येवंरूपो यः स एव परिकल्पितो न तु धर्म्यपि कारण कार्यलक्षणः / तन्न हेतुफलाभावाभावरूपो दोष इति चेत् / न / यदि उत्पादविनाशरूपो धर्मः परिकल्पितस्तदा कार्यकारणलक्षणो धर्मी कुतः पारमार्थिकः स्यात् ? / धर्मरहितस्य नि:स्वभावतया Jain Education International For Private & Personal Use Only www.jainelibrary.org