________________ अनुसंधान-२० 87 __ अथ न पूर्वापरक्षणप्रवाहमानं सन्तानो नाऽपि तद्व्यतिरिक्तः कश्चिद् वस्त्वन्तरभूत:, किन्तु य एवेह पूर्वोत्तरक्षणानामुपादानोपादेयभावः स एव सन्तानस्ततश्च सर्वोऽप्यनन्तरोदितो व्यवहार इत्यदोष इति चेत् / न / विवक्षितैकतमकारणक्षणाद् यथा सन्तानान्तरवर्ती क्षणो भिन्नस्तथा कार्यक्षणोऽपि भिन्न एव, सर्वथा कार्ये कारणधर्मानुगमाभावात् / ततो यथा देवदत्तजिनदत्तयोरत्यन्तं भिन्नत्वादेककर्तृकः स्मरणादिको व्यवहारो न सङ्गतिमश्नुते तथा विवक्षितेष्वपि पूर्वोत्तरक्षणेषु / नहि भिन्नसन्तानान्तरवर्तिनः क्षणादस्य कार्यक्षणस्य कश्चिद् विरोधो यन्निबन्धनोऽत्र सर्वोऽपि पूर्वोक्तो व्यवहारः प्रवर्तेत, नेतरत्रेति स्यात् / न च भिन्नसन्तानान्तरवर्तिनः क्षणात् कार्यक्षणस्याऽस्त्येव वैशिष्ट्यं, कार्यकारणभावात् / न हि यथैकसन्तानवर्तिप्रथमक्षणस्य यथा स्वोत्तरक्षणस्तस्य कार्य, स्वयं च तस्य कारणं, तथा भिन्नसन्तानान्तरवर्ती स्वोत्तरक्षणोऽपीति वाच्यम् / एकान्तक्षणिकपक्षे कार्यकारणभावस्याऽसिद्धेः क्षणिकं हि कार्यत्वाभिमतं वस्तु पूर्वक्षण एव निरन्वयनष्टं सत् कथमुत्तरक्षणे(ण) जनयेत् ? / नह्यभावाद् भावोत्पत्तिः, पूर्वकारणक्षणात् पूर्वमेव कार्योत्पत्तिप्रसङ्गात् / तदभावस्य प्रागपि विद्यमानत्वात् / अथ कारणप्रध्वंसाभावादेव कार्यं न तु तत्प्रागभावादपीति नोक्तदोष इति चेत् / न / अभावस्य सर्वोपाख्याविकलत्वेन विशेषाभावादेवं व्यवस्थानुपपत्तेः / न हि केन[चि] दपि विशेषणेन विशेषयितुं शक्योऽभावः, खरविषाणवत् सकलशक्तिशून्यत्वेन कर्मत्वशक्त्ययोगात् / अथ कारणादेव कार्य, तदाऽन्वयसिद्धिप्रसङ्गः, कारणभावाविच्छेदेन कार्यस्य भावाभ्युपगमात्, भावाविच्छेदस्यवाऽन्वयत्वात् / नन्वन्य एव कारणभावोऽन्यश्च कार्यभावस्तत्कथमिह भावाविच्छेदेऽपि अन्वयापत्तिरिति चेत् / न / तत्त्वतो भेदकाभावेन एकान्तेनाऽन्यत्वाभावात् / क्षणयोहि पूर्वापरयोस्तद्भेदकत्वं स्यात् / न च तयोविवक्षितपूर्वापरभावयोरन्यत्वम्, अक्षणिकत्वप्रसङ्गात् / तदपरक्षणभावेऽनवस्थापातात् / अनवस्थाप्रसङ्गाभावेऽपि न तयोः क्षणयोर्भेदकत्वमेव, उभयोरपि भावयोर्भावरूपताया अविशेषात् / आकारादिभेदाद् विशेषसिद्धिरिति चेत् / न / आकारादिभेदवत् अविशेषेण भावरूपताया अपि प्रतीयमानत्वात् / न चाऽ(नन्व)धिकृतघटजन्यकपालवत् घटान्तरजन्यकपाले ऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org