________________
अनुसंधान-२०
75 सत एव भावान्तररूपतया परिणमनम् । ततो विज्ञानादेर्वस्तुनः स्वरूपं अन्वयेन व्याप्तम् । विज्ञानं चेत् न विज्ञानान्तरपूर्वकं स्यात् तर्हि अन्वयविरुद्धोपलब्ध्या व्यावर्तमानं विज्ञानं विज्ञानान्तरपूर्वकत्वेन व्याप्यत इति प्रतिबन्धसिद्धौ व्याप्त्यसिद्धरसिद्धः । ___यत् पुनः प्रतिनियतालब्धवित्तलाभादिवैचित्र्यस्य नियामकमन्तरेणाऽनुपपद्यमानत्वादित्याद्याशक्य प्रोक्तं-"भूतानामेव तथास्वभावत्वतो वैचित्र्योपपत्तेः, यदुक्तं 'जलबुबुदवज्जीवा' इत्यादि" । तन्न साधीयः । प्रत्युत तस्य जीवसिद्धिनिमित्तत्वात् । तथा हि, न जलमात्रनिमित्तं तद् बुद्बुदवैचित्र्यं, सर्वत्र सर्वदा तद्भावप्रसङ्गात् । ततश्चाऽन्यथाऽनुपपद्यमानं तदात्मनः पवनादि कारणमवगमयति यथा, तथा भूतमात्रत्वाविशेषेऽपि नर-पश्वादिरूपेण प्रत्यात्मवैचियमन्यथाऽनुपपद्यमानमात्मनः कारणमदृष्टमवगमयति । तदपि विचित्रकार्यदर्शनाद विचित्रम् । तदुक्तम्
आत्मत्वेनाऽविशिष्टस्य वैचित्र्यं तस्य यत् कृतम् । नरादिरूपं तच्चित्रमदृष्टं कर्मसञकम् ।। इति ।
भवति हि तत एवाऽलब्धवित्तलाभादिर्न तु भूतानां, तथास्वभावात् । भेदकमन्तरेण तथास्वभावत्वविशेषस्यैवाऽसम्भवात् । भेदकाभ्युपगमे च पर्यायत: कर्मण एवाऽभ्युपगमात् । तस्य च कर्तारं विनाऽनुपपद्यमानतया, तत्कर्तुस्तदन्यथानुपपत्त्याऽनुमीयमानस्य जीवस्य पूर्वभवेऽप्यस्तित्वं सिद्धम् । तस्मादस्त्येव जीवः परलोकगामी । एवं च 'परलोकिनोऽभावात सरनार-कत्वादिलक्षणपरलोकस्याऽप्यभाव' - इत्यादि यदुक्तं तत्सर्वं निरस्तम् । आत्मसिद्धेः प्रमाणमूलकत्वात् ।
अत्र वदन्ति - सिध्यतु आत्मा । तथाऽपि अनादित्वं तस्य कुतः ? । कृत्रिमत्वेन घटादिवत् सादित्वस्यैव सिद्धेः । तच्चिन्त्यम् ।
कृत्रिमत्वं हि न कर्तारमन्तरेण भवति । अतोऽस्य कश्चित् कर्ता स्वीकरणीयः । स च जीवो वा स्यादजीवों वा । यदि जीवस्तहि तस्याऽपि कश्चित् कर्ता वक्तव्यः । सोऽपि च जीव एवेति तस्याऽपि कर्ता इति प्रसरन्ती अनवस्था दुर्निवारा स्यात् । यदि जीवत्वेऽपि तस्य कर्ता नेष्यते तदा कोऽयं मत्सरो भवतो यत् तदन्यजीवानां कर्तेष्यते ? इति जीवत्वाविशेषात् सर्वेऽप्यकृत्रिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org