________________
July-2002
लक्ष्मीधरग्रामे चतुर्मुखो जिनप्रासादोऽस्ति । न च तस्मिन् भवे तेन सोऽनुभूतोऽस्ति, इति तादृशयथाभूतवस्तुस्मरणरूपकार्यान्यथानुपपत्त्या तस्याऽपि सत्त्वमवगम्यत इति तत् तुल्यम् । अपि चाऽस्ति वृद्धस्याऽपि कस्यचित् तीव्रक्षयोपशमयुक्तस्य बाल्यावस्थानुभूतस्मरणं । तद्वत् पूर्वजन्मानुभूतस्मरणमपि किं न स्यात् ? कस्यचित् तावत्कालविषयस्याऽपि तत्कारणक्षयोपशमविशेषस्य सम्भवात् । न च भूतानां चित्रस्वभावतया स्वप्नज्ञानमिवाऽर्थात्] तथाभवविकलं जातिस्मरणमुत्पद्यत इति वाच्यम् । चैतन्यस्य भूताधर्मत्वेन भूतानां तथास्वभाव त्वासिद्धेः । एतेन यदुक्तमस्माभिर्बालकस्य प्रथमोत्पन्नस्येत्यादि, तत् सर्व समञ्जसमेव । अपि च प्रथमो बालस्य स्तनाभिलाष: अभिलाषपूर्वकः, अभिलाषत्वात्, तरुणस्य भोजनाभिलाषवत्-इत्यनुमानतः सिद्ध्यति योऽभिलाष: स प्राचीनभव एव, इह भव एव तस्य स्वीकारे पक्षीभूतस्य प्रथमत्वाभावेन तस्यैव पक्षत्वापत्तौ तत्प्राचीनस्य पूर्वभव एव सिद्धिः स्यादिति सिद्ध एवाऽऽत्मा परलोकयायी ।
अथ न बहियाप्त्या साध्यं सिद्ध्यति, अतिप्रसङ्गात्, किन्त्वन्तर्व्याप्त्या, सा चेह न, प्रतिबन्धाभावात् । ततः कथं साध्यसिद्धिः ? उक्तं च - "अन्तप्रिसिद्धिर्बहिश्चेद्व्याप्तिस्तस्यां साध्यसिद्धिर्न जातु अन्यव्याप्त्याऽन्यस्य सिद्धिः, यदि स्यात् सर्वस्य स्यात्, सर्वसिद्धिप्रसङ्ग" इति । अपि चैवं सति एवमपि शक्यं वक्तुं-योऽभिलाषः सोऽवश्यमभिलाषान्तरजनको यथा बालस्य प्रथमस्तनाभिलाषः । ततश्चैवमविच्छेदेनाऽभिलाषसन्ततिप्राप्तौ मोक्षाभावप्रसङ्ग इति । तदयुक्तम् । अभिलाषस्य लोभकर्मोदयविपाकजन्यत्वेन, लोभकर्मणोऽपि अभिलाषादिसामग्रीविशेषजन्यतया, प्राग्भवेऽभिलाषाभावाल्लोभकर्मणोऽप्यभावापत्ती तदुदयनिमित्तकस्य प्रथमस्तनाभिलाषस्याऽप्यभावप्रसङ्गेनाऽन्तप्तेः सिद्धेः । न च विशेषविरुद्धत्वं, प्रथमत्वविशेषणेनैव बालाद्यस्तनाभिलाषस्यैहभविकाभिलाषपूर्वकत्वस्य बाधात् । तथा सति प्रथमत्वस्याऽयोगात् । ततश्च कुतो विशेषविरुद्धत्वं ?, 'विरुद्धोऽसति बाधन' इति वचनात् ।
___ यद्वा बालस्य प्रथमं विज्ञानं विज्ञानपूर्वकं, विज्ञानत्वात्, युवविज्ञानवदित्यनुमानमात्मसिद्धौ । न च प्रतिबन्धासिद्धेाप्त्यसिद्धिः इह । न हि नाऽ(?)त्यन्तासत उत्पादो, नाऽपि सतो निरन्वय एव विनाशः, किन्तु कथंचित्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org