________________
76
एव स्वीक्रियन्ताम् ।
किञ्च न हि प्रयोजनमनुद्दिश्य मन्दधियाऽपि प्रवृत्तिरूपपनीपद्यते इत्यस्य (. इति अस्य) जीवनिष्पादने किं प्रयोजनम् ? । नहि कुम्भकारो घटं घटनिष्पत्तिलक्षणमेव फलमुद्दिश्य निष्पादयति, किन्तु तद्विकयाद् धनलाभादिफलम् । अथाऽसौ कृतकृत्यत्वात् तन्निष्पत्तेरतिरिक्तं फलं नेच्छति । तदा तन्निष्पत्तिमपि न कुर्यात् । अन्यथा कृतकृत्यत्वमप्यस्य कुष्ठिनः पौरन्दररूपवत्त्वतुल्यम् । अथ स्वभाव एवैष तस्य यत् कृतकृत्यत्वेऽपि विचित्रान् जीवान् विधत्त इति चेत् । तर्हि जगन्निर्माणमहाक्लेशकारणमसौ कल्प्यमानो न सुन्दरः महाक्लेशकर्मकारित्वेन भगवतोऽपरायत्तताभङ्गप्रसङ्गात् । न हि तत्सत्तामात्रमपेक्ष्य जीवा भवन्ति, तेषामनादित्वप्रसङ्गात् । तत्सत्ताया आदिश्चेत् स्वीक्रियते तर्हि सोऽपि कादाचित्क एवेति कृत्रिम एव सञ्जात इति तत्कर्तृकल्पने प्रागुक्तैवाऽनवस्था ।
July 2002
अथ तस्य सत्ताऽनादिरेव परं न सा स्वसमकालं जीवोत्पत्तिकारणं, किन्तु कियत्यपि काले गते, अतो जीवानां सादित्वं इति चेत् । तर्हि जगत्कर्तुः पूर्वं जगदकारकत्वं पश्चाच्च तत्कारकत्वमिति स्वभावभेदात् स्फुटमनित्यत्वं अतादवस्थ्यस्याऽनित्यत्वात् । तथा च तस्य प्राप्तमादिमत्त्वमिति विनाशित्वमपि स्यादिति लाभमिच्छतस्तव सञ्जातो मूलस्याऽपि क्षयः ।
अथ स्वभाव एवाऽनित्यो, न तु स्वभाववानपि तस्य ततो भिन्नत्वादिति चेत् । न । स्वभावस्य स्वभाववत एकान्तेन भेदे स्वीक्रियमाणे तस्य स स्वभाव एव न स्यात् । घटवत् अन्यत्राऽप्युपलम्भः स्यात् । न चैतद् दृष्टमिष्टं वा । तस्मातृ कथञ्चिदभिन्न एव स्वीकर्तव्य इति भवति तस्याऽनित्यत्वे स्वभाववतोऽपि कथञ्चिदनित्यत्वं, स्वभावात् कथञ्चिदभिन्नत्वात् ।
-
अथ जीवानामेवाऽयं स्वभावो यत् कियत्यपि काले गते जगत्कर्तुः सत्तामपेक्ष्य ते भवन्ति इति चेत् । न । उत्पन्नानां किमयं स्वभावः अनुत्पन्नानां वा ? नाऽऽद्यः, उत्पन्नानां पुनरुत्पादाभावेन तत्स्वभावकल्पनाया निरर्थकत्वात् । न द्वितीयः, अनुत्पन्नानां तुरङ्ग श्रृङ्गतुल्यत्वेन स्वभावाधिकरणत्वाभावात् स्वभावस्य वस्तुधर्मत्वात् ।
किञ्च, वीतरागो ह्यसौ करुणया यदि जीवान् करोति तदा सर्वानपि सुखिन एव कुर्यात्, न पुनर्दुःखिनः । न हि मध्यस्थोऽपि कस्यचिद् दुःखमुत्पादयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org