________________
71
अनुसंधान-२० प्रमाणं-ज्ञानतारतम्यं वचिद् विश्रान्तं, तारतम्यत्वात्, आकाशपरिमाणतारतम्यवत् । यत्र तद् विश्रान्तं स एव सर्वज्ञः । इति तत्प्रणीतं यद् वचस्तत् प्रमाणमेव, अप्रामाण्यप्रयोजकस्य मोहादेस्तत्राऽभावात् । तदुक्तम्
रागाद्वा द्वेषाद् वा मोहाद् वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ? ॥ इति सिद्ध एव आगमादप्यात्मा ।
यत् पुनः 'पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसञ्जा' इति, तदप्रमाणम् । जीवाभ्युपगममन्तरेण पृथिव्यादिष्वेव भूतेषु जीवद्देवदत्तादिशरीर-घटादिरूपेषु दृष्टस्य सचेतनाचेतनत्वरूपस्य वैचित्र्यस्य सर्वथाऽनुपपद्यमानत्वात् । तथैव प्राक् सविस्तरं दर्शितत्वात् । एवं च 'विज्ञानघन एवैतेभ्यो भूतेभ्य' इत्याद्यपि यथाभिप्रायमुपन्यस्तमप्रमाणमवगन्तव्यम् । यथा पुनरेतदेव वाक्यं विद्वांसो व्याकुर्वन्ति तथा प्रमाणमेव, तथा व्याख्याने दृष्टस्य सचेतनाचेतनत्वलक्षणस्य वैचित्र्यस्य जातिस्मरणादेश्चोपपद्यमानत्वात् । तच्च व्याख्यानं विशेषावश्यकादवसेयम् ।
एवं च यः प्रतिषेधति जीवं स एव जीव इति प्रागुक्तमेव युक्तं, भूतानां अचेतनत्वेन तत्प्रतिषेधकत्वायोगात् ! यदन्वयिनिमित्तता च चैतन्यस्य कार्यत्वेन प्राक् प्रसाधिता स आत्मैव,तस्यैवाऽनुरूपतया चैतन्यं प्रति धर्मित्वाद्युपपत्तेः । स च परिणामित्वात् सुरनारकादिपर्यायरूपेण परिणमते इति आत्मा परलोक्यपि सिद्धः । तथा च यदुक्तं प्राक्- 'आत्मनोऽभावात् परलोकस्याऽप्यभावः' - इति, तन्मन्दबुद्धिविजृम्भितमित्युपेक्षणीयमेव । न चाऽऽत्मनः सुरनारकादिरूपेण परिणमनमयुक्तमिति वाच्यम् - सत एकान्तेन विनाशाभावात् । न हि घटकपालयोरन्तरा एकोऽपि क्षणो भावरूपताशून्य उपलभ्यते येन घटः सर्वथा विनष्टः कपालचाऽसन्नेवोत्पन्न इत्यपि स्यात् । किं तु घट एव कपालरूपेण परिणमते, न तु सर्वथा विनश्यतीति निश्चीयते । न च दीप-तडागोदकादेरपि निरन्वयो विनाशः, तैलादिक्षये दीपस्यैव तमोरूपेण परिणतत्वात् । नहि प्रौढप्रकाशकयावतेजःसंसर्गाभावस्तमो, येन तद्रूपत्वं विरुद्धं स्यात् । तडागोदकादेरपि पवनादिनाऽन्यत्र सञ्चार्यमाणत्वेन परिणामान्तरेण सत्त्वात् । कथमन्यथा जलेनाऽऽर्टीकृतायां मृदि तत्रोपलभ्यते । न हि रूपान्तरेणाऽपि तत्र तन्नाऽस्त्येव, मृदि प्रागिवाऽऽर्द्रत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org