________________
72
July-2002 भावप्रसङ्गात् । तुलायां नत्याधिक्याभावापत्तेश्च । किञ्च घटविनाशस्य भावरूपघटोपादानकत्वेन भावत्वसिद्धौ कथं न प्रमाणबाधितः सर्वतः सर्वथा विनाशः । न चैकान्तेनाऽसत उत्पादोऽपि, असत स्तुच्छरूपत्वेन भवनशक्त्ययोगात्। अन्यथैकान्तेनाऽसत्त्वायोगात्। तथाऽपि चेत् तस्य सत्त्वरूपतया भवनमिष्यते तहतिप्रसङ्गः, खरविषाणस्याऽप्युत्पत्तिप्रसक्तेः, तद्भवनशक्त्यविशेषात् । किञ्च यदि विवक्षितभावोत्पादोऽसदुपादानः स्यात् तर्हि तस्य कूर्मरज्जू(रोमो?)पादान करज्जोरिवाऽसत्त्वमेव स्यात् । एवं च सत: सर्वथा विनाशाभावादत्यन्तासत उत्पादाभावाच्च युक्तं सुरनारकादिरूपेणाऽऽत्मनः परिणमनं, तत्तद्विलक्षणशुभाशुभकर्मरूपसामग्रीसद्भावेन तत्तद्विलक्षणसुर-नारकादिपरिणामोपपत्तेः । एकस्यैव शरीरस्य बाल्ययौवनसामग्रीभेदेन बाल-युवपरिणामोपपत्तिवत् । अत एव न दानादिक्रियाफलस्याऽप्यभावः, परिस्पन्दात्मकचेतनावत् क्रियात्वेन तत्र सफलत्वसिद्धेः । न च सिद्धसाधनं, कीर्त्यादिफलेनाऽदृष्टफलेन फलवत्त्वसाधने सिद्धसाधनाभावात् । न च कृष्यादौ व्यभिचारस्तस्याऽपि पक्षसमत्वेन व्यभिचाराभावात् । कृष्यादिक्रिया यद्यदृष्टफला न स्यात् तहि सर्वमुक्तिरपि स्यात् । पुण्यपापयोरभावेन तन्निबन्धनसंसारस्याऽप्यभावात् । तद्भवसमुद्रान्यथानुपपत्तिरेव कृष्यादिक्रियाया अदृष्टफलवत्त्वे मानम् । किञ्च तुल्योपायसाध्येऽपि कार्ये प्रवृत्तानां दृश्यते तावत् फलविशेषः । स च न कारणविशेषमन्तरेण घटते, कार्यभेदस्य कारणभेदप्रयोज्यत्वनियमात् । अन्यथा शुक्लतन्तुभ्यो रुक्तोऽपि पटः प्रादुःष्यात् । न च दृष्टं कारणं एकत्र विद्यते न पत्रेति अदृष्टमेवैकत्र न विद्यत इत्यकामेनाऽपि स्वीकरणीयम् ।
किञ्च, आगमोऽपि क्रियामात्रस्यैकान्तेनाऽदृष्टफलत्वं बोधयति । यदाह भगवान् श्रीसुधर्मस्वामी भगवत्यने- "जाव णं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव णं एस जीवे सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा एगविहबंधए वा । नो चेव णं अबंधए सिय ति" । तच्चाऽदृष्टं द्विविध, पुण्यपापरूपत्वात् । तत्र दानादिक्रियाजन्यं पुण्यं, हिंसादिजन्यं च यापम् । न च वैपरीत्यमेवाऽस्तु इति वाच्यम्, लोकप्रतीतिविरोधात् । न च गगने श्यामताप्रतीतिवदियं भ्रमरूपा, बाधकाभावात् । हिंसादिजन्यं पुण्यं दानादिजन्यं च पापमिति कल्पनाया बाधकसद्भावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org