________________
10
July-2002
प्रामाण्यरूपस्वरूपस्य भ्रंस(श) इति सिद्धं आगमः प्रमाणमिति । एवं चाऽतः सिद्धो जीवोऽपि सुसिद्ध एवेति । यदप्युक्तं-"कथं 'छविहा जीवा पन्नत्ता' इत्यादिकं जीवास्तित्वप्रतिपादकं वचः प्रमाणम् । 'पृथिव्यापस्तेजो वायुरिति तत्त्वानी' त्यादिकं जीवप्रतिषेधकं न प्रमाणं, नियामकाभावात् । तस्मात् सुदृढमेतद यत्नास्ति जीव इति" । तदप्ययुक्तम् ।।
अतीन्द्रिये विषये हि तदेव वच: प्रमाणं यदविसंवादि । अविसंवादश्च तदभिधेयस्याऽर्थस्य प्रत्यक्षस्याऽनुमेयस्य वा प्रत्यक्षेणाऽनुमानेन वा यथाक्रम ग्रहणं परस्परमव्याघातश्च । उपलभ्यते चासौ वीतरागवचसि प्रत्यक्षत्वेन, तदभिहितस्याऽर्थस्य प्रत्यक्षेण ग्रहणात् । यथा ''से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेऊण तेणं सद्दो त्ति उग्गहिए । नो चेव णं जाणइ के वेस सद्दे ति(त्ति) । ततो ईहं पविसई" इत्यादिना सूत्रेण शब्दादीनां श्रावणावग्रहादिरूपप्रत्यक्षगोचरत्वेनाभिह(हि)तानां तथैव ग्रहणम् । अस्ति चाऽनुमेयत्वेनाऽप्यभिहितस्याऽनुमानेन ग्रहणम् । यथा “सासए असासए जोवे ? । गोयमा ! सिय सासए सिय असासए । से केणद्वेणं भंते ! एवं वुच्चइ ? । गोयमा ! दव्वट्ठयाए सासए भावट्ठयाए असासए" । इत्यादिनाऽभिहितस्य नित्यानित्यत्वस्य स्मरणाद्यन्यथानुपपत्त्याऽवस्थाभेदान्यथानुपपत्त्या च ज्ञायमानत्वेनाऽनमेयतयाऽभिमतस्य तथैव ग्रहणम् । परस्पराव्याघातोऽपीह स्फुटोऽस्त्येव, यथा जीवस्य बन्ध-मोक्षावभिधाय नित्यानित्यत्वविधानम्, एकान्तनित्यपक्षेऽनित्यपक्षेऽपि तयोः सर्वधाऽनुपपद्यमानत्वात् ।
तदेवमविसंवाददर्शनादिदं वीतरागस्य वचस्तावत् प्रमाणमेव । न च वाच्यं वीतरागत्वं कस्याऽपि न सम्भवत्येव । रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते,
अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात्, सूर्याद्यावारकजलद पटलवदित्यनुमानेन तत्सिद्धावसम्भवस्य वाङ्ममात्रत्वात् । तदुक्तम्
देशतो नाशिनो भावा दृष्टा निखिलनश्वराः । मेघपङ्क्त्यादयो यद्वदेवं रागादयो मताः ॥ इति ।
यस्य च निरवयवतयैते विलीनाः स एव वीतराग इति । अनादिरागादिक्षयस्तु तत्प्रतिपक्षभूतरत्नत्रयाभ्यासेन भवत्येव, क्षारमृत्पुटपाकादिना अनादिसुवर्णमलक्षयवत् । क्षीणरागादेश्च केवलज्ञानाव्यभिचारात् सर्वज्ञत्वं, तत्सिद्धौ च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org