SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 60 July-2002 चैतन्यस्याऽभावात् कायाभावेऽपि सिद्धिदशायां तदुपादानसत्त्वे चैतन्यस्य भावात् असिद्ध एव चैतन्यं कायादुपपद्यते, तद्भाव एव भावान्मद्याङ्गभावे मदशक्तिविदिति हेतुरिति सुष्टुक्तं चैतन्यस्य तथाविधभूतकार्यत्वे न किञ्चित् प्रमाणमिति । किञ्च योऽयं मदशक्तिदृष्टान्तस्त्वयोच्यते तत्र किञ्चिच्चर्यते । तथाहि, मदशक्तिर्हि किं मद्याङ्गसमुदायरूपे मद्ये उत मद्यभाजने उत तत्पानकर्तरि भवता स्वीक्रियते ? नाऽऽद्यः, तथात्वे मद्यस्याऽपि कदाचिन्मादनप्रसङ्गात् । अत एव न द्वितीयः । तृतीये तु दृष्टान्तस्य साधनविकलतैव, मदशक्तेः पानकर्तृसापेक्षत्वेन यथाकारपरिणतकेवलमद्याङ्गसमुदायादनुत्पत्तेः । अथ यथा कुम्भादिगताऽपि देवदत्तसम्बन्धिनी उत्क्षेपादिशक्तिर्देवदत्तस्यैव न तु कुम्भादेः, तथा पानकगताऽपि मद्यसम्बन्धिनी मद्यशक्तिर्मद्यस्यैव, न तु पानकस्येति कथं दृष्टान्तस्य साधनविकलत्वं इति चेद् । एतावताऽपि स्वोपादानादन्यत्रैव मदशक्तिः स्वकार्यं करोतीत्यायातम् । तथा चेष्टसिद्धिरेवास्माकम्, एतद्दृष्टान्तबलेनैव चेतनाया अपि स्वोपादानत्वाभिमतभूतसमुदायादन्यत्रैव स्वकार्यजनकत्वसिद्धेः । कथमेतावताऽभीष्टसिद्धिरिति चेत्- | अहो ! बुद्धितैक्ष्ण्यं । भूतसमुदायादन्यस्यैवाऽऽत्मत्वात् । हा बुद्धितैक्ष्ण्यं ! न हि पानको मद्यांगसमुदायादतिरिक्तो येनाऽत्र भूतसमुदायादतिरिक्तः कश्चित् सिद्ध्येत्, किन्तु तदन्तर्गत एव । तथा च यथा स्वनिमित्त एव मदशक्तिः स्वकार्यं जनयति, तथा चेतनाऽपीति कथमतिरिक्तस्यैवाऽसिद्धौ आत्मा सिध्येत् ? । हन्त ! तथाऽपि सा मदशक्तिः स्वाश्रयान्मद्याद् भिन्न एव गता सती स्वकार्यं करोति तथा चेतनाऽपि स्वाश्रयात् कायाकारभूतसमुदायाद् भिन्न एव गता सती स्वकार्य साधयिष्यतीति कथं नाऽऽत्मसिद्धिः?स्वाश्रयाद भिन्नस्यैवाऽऽत्मत्वात् । न च मदशक्तिः स्वाश्रयाद् भिन्न एव कार्यं करोति, चेतना तु स्वाश्रय एव, स्वभावस्यैव युक्तित्वादिति वाच्यम् । स्वभावस्य विवादास्पदत्वेनाऽयुक्तिताया एव युक्तेः । वस्तुतस्तु मद्ये मदशक्तिर्नाऽस्त्येव, तथा सति तस्याऽपि कदाचिन्मादनप्रसङ्गात् । किन्तु तत्सम्बन्धात् पानकस्यैव । तथा तथाविधभूतसमुदाये नाऽस्त्येव चेतना, किन्तु तत्संयोगात् तदन्यस्यैवाऽऽत्मन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229345
Book TitleMahopadhyaya Yashovijayji Ganikrut Atmasamvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages65
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy