________________
61
अनुसंधान-२० इति तत्त्वम् ।
यदपि च देवदत्तसम्बन्धिन्यपि उत्क्षेपणादिशक्तिः कुम्भाधुत्क्षेपणादिगता दृश्यत इत्युक्तं तदप्यसमीचीनम् । तत्राऽपि हि देवदत्तहस्तादिसम्बन्धविशेषभावतः कुम्भादरेवोत्क्षणादिपरिणामशक्तिरुत्पद्यते । यतस्तस्योत्क्षेपणादिपरिणामो भवति । न च सा शक्तिरन्यत्र सङ्कामति । देवदत्तस्याऽपि स्वपरिणामविशेषवशात् सा शक्तिरूपपादि या कुम्भादेरुत्क्षेपणादिशक्तिमुत्पादयितुमुत्सहते । न च साऽप्यन्यत्र सकामति । येन च यस्य यत्परिणामशक्तिराधीयते तेन तस्य स परिणाम: कु(कृ?)त इत्युच्यते; तेन देवदत्तेन कुम्भादिरुत्क्षिप्यते-इत्यादिको लौकिकोऽपि व्यवहार उपपद्यते, यथा मद्येन माद्यत इति । तन्न शक्तेरन्यत्र कथञ्चनाऽपि सङ्क्रमः । सोऽपि चेदभ्युपगम्यते तर्हि प्रतीतिबाधाप्रसङ्गः । न च शक्तेरन्यत्र सक्रमे किञ्चित् प्रमाणमिति न मद्ये मदशक्तिरुत्पद्यते, किन्तु मद्यसंयोगतो जीव एव; दधिसंयोगतो निद्रादिशक्तिवत् । तथा च मदशक्तिदृष्टान्तस्य साधनविकलतैव, केवलमद्याङ्गसमुदयभावे मदशक्तेरभावात् । एवं न भूतधर्मता तत्कार्यता वा चैतन्यस्य । ततश्च पारिशेष्याद् यस्याऽयं धर्मः स आत्मेति प्रतिपत्तव्यम् । तदुक्तम्
अचेतनानि भूतानि न तद्धर्मो न तत्फलम् । चेतनाऽस्ति च यस्येयं स एवाऽऽत्मेति चाऽपरे ।। इति ।
अथ भूतकार्यत्वसाधकं मानं यथा नाऽस्ति तथा तत्प्रतिषेधकं किमपि नाऽस्ति । न च साधकाभाव एव बाधको, वैपरीत्यस्याऽपि सुवचत्वात् इति चेत् । न । जीवच्छरीरं चेतनाशून्यं, भूतफलत्वात्, घटवत्-इति बाधकप्रमाणस्य सत्त्वात् । न चाऽप्रयोजकत्वं, जीवद्देवदत्तशरीरं यदि चेतनाशून्यं न स्यात् तर्हि चेतनावत् स्यात्, यदि च चेतनावत् स्यात् तर्हि भूतकार्यं न स्यात् । कार्यस्य स्वोपादानकारणधर्मानुगमसम्भवव्याप्तत्वेन सचेतनस्याऽचेतनभूतकार्यत्वविरोधात्, -इति विपक्षबाधकसद्भावेनाऽप्रयोजकत्वस्याऽभावात् । यदि कार्य स्वोपादानकारणधर्मानुयायि स्यात् तर्हि रक्ततन्तुकारणक: पटो रक्तो न स्यात् । न चैतद दृष्टमिष्टं वा, प्रत्यक्षबाधात् । भवति च जीवदेवदत्तशरीरं भूतकार्य, तस्माच्चेतनाशून्यं, भूतानामचेतनत्वेन प्रत्यक्षसिद्धत्वात् । न च-दृष्टान्तस्य साध्यविकलत्वं, तत्राऽप्यनभिव्यक्तचैतन्यस्वीकारादिति वाच्यम् । उक्तयुक्तेस्तत्राऽनभिव्यक्तेरेवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org