SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२० 59 सुवर्णे इव अग्निनिवृत्तौ द्रवतानिवृत्तिवत् वातादिविकारस्य तन्निवृत्तौ निवृत्तेरेवोपपत्तेः। अन्यथा चिकित्साशास्त्रस्य वैयर्थ्यमेव प्रसज्येताऽतो महतोऽपि दौर्बल्यादिविकारस्येव मरणविकारस्य युक्तैव निवृत्तिः । अथ चिकित्साप्रयोगादपि दौर्बल्यादिनिवृत्त्युपलब्धेरपनेयविकारत्वं, असाध्यव्याधेरूपलब्धेरनपनेयविकारत्वं चेत्युभयथा दर्शनान्मरणानिवृत्तिः । तदसत् । यत् औषधालाभादायुःक्षयाद् वा कश्चिदसाध्यो विकारो भवति, दोषे तु केवले विकारकारिणि नाऽस्त्यसाध्यता । तथा हि- तेनैव व्याधिना कश्चिन्मियते कश्चिन्नेति नेदं दोषे केवले विकारकारिणि घटते, तस्मात् कर्माधिपत्यमेव सुसूत्रम् । न चैतत् परलोकादागतमात्मानं विनेति । स्यादेतत् । कायजमेव चैतन्यं, कायविकारे तद्विकारोपलम्भात् । न चाऽसिद्धिर्जरादौ तथा दर्शनात्, इति चेत् । न । यद् यदन्वयव्यतिरेकानुविधायि तत् तद्धेतुकं । न च कायविकारान्वयव्यतिरेकानुविधायि चैतन्यं, कायविकाराभावेऽपि अप्रीत्यस्वास्थ्यादिभावाच्चैतन्यविकारोपलब्धेः । यदि पुन: कायविकारनिमित्तक एव चैतन्यविकारः स्यात् तर्हि अन्यतो न भवेत्, तनिमित्तकस्य तमन्तरेण सकृदपि भवनविरोधात्; अन्यथा निर्हेतुकत्वप्रसङ्गात् । न चयत्राऽप्यप्रीत्यादिभावस्तत्र देहविकार आवश्यको, जरादौ तथा दर्शनादिति-वाच्यम् । देहविकाराभावेऽपि तथाविधसङ्कल्पवशतोऽप्रीत्यादिभावस्य प्रतिप्राणि स्वसंवेदनप्रत्यक्षेणाऽनुभवात् । वस्तुत(तो) यद्विकारस्य द्वि(वि)कारस्तत् तस्य कार्यमिति व्याप्तिरेव नाऽस्ति । पुत्रशरीरविकारे मातृशरीरविकारोपलम्भेन मातृशरीरस्य पुत्रशरीरकार्यत्वप्रसङ्गात् । सिंहोऽयं, सन्मुखमागच्छति वा, इति वाक्य श्रवणादेव केषाञ्चिच्चैतन्यविकारोपलब्धेस्तच्चैतन्यस्य तद्वाक्यश्रवणनिमित्तकत्वापाताच्च । तत्तत्कायजं चैतन्यं, कायसद्भावेऽपि तदतिरिक्तमुपादानं विना तस्याऽभावात् । यच्चाऽस्योपादानं स आत्मा, अत एव न कायाभावेऽभावोऽप्यस्य, सिद्धेषु तथोपलब्धेः । न च सिद्धसिद्धौ न मानं, मोक्षसिद्धौ अभिधास्यमानत्वात् । ननु न हि सर्वेषां वादिनां मते मोक्षः सिद्धोऽस्ति, येन मोक्षदशायां कायाभावेऽपि चैतन्यभावः स्यादिति चेत् । तत् किं सर्ववादिनां मते चैतन्यस्य भूतकार्यता सिद्धा येनैवं वदन्न लज्जसे ? । ततश्च कायसद्भावेऽपि तदतिरिक्तोपादानं विना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229345
Book TitleMahopadhyaya Yashovijayji Ganikrut Atmasamvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages65
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy