SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 50 July 2002 प्रत्यक्षसिद्धं चैतन्नहि भवताऽप्यपह्नोतुं शक्यम् । यस्तु प्रत्यक्षसिद्धमप्यर्थमपहनुते तस्य तु शून्यवादिमत एव प्रवेशो युक्त इति कथं त्वयि चार्वाकता चिरस्थायिनी स्यात् ? न ह्येवं समुदितावस्थायां ये गुणास्ते प्रत्येकावस्थायां भूतेषु सामान्यतोऽप्युपलभ्यन्त इति कथं समुदितावस्थायामपि तेभ्यश्चैतन्यस्योत्पत्तिः स्यात् । नहि प्रत्येकावस्थायां सर्वथाऽविद्यमाना स्निग्धता समुदितावस्थायां सिकताकणेषु केनाऽप्यनुभूयते । न चैतद्दोष भयेन प्रत्येकावस्थायामपि किञ्चिच्चैतन्यस्वरूपं स्वीक्रियत एवेति वाच्यम् । एकेन्द्रियजीवसिद्धिप्रसङ्गेनाऽपसिद्धान्तापातात्, चेतनाचेतनव्यवहारविलोपपत्तेश्च । न चाऽनभिव्यक्तं यत्र चैतन्यं तत्राऽचेतनव्यवहारोऽन्यत्र तु अपर इति वाच्यम् । अनभिव्यक्तचैतन्यस्य त्वयैव तिरस्कारात्, अपलापे प्रतिज्ञासंन्यासनिग्रहापातात्, प्रमाणाभावेन तन्निरासस्य सुकरत्वाच्च । किञ्च, कायाकारपरिणतभूतेभ्यो यद्यसत एव चैतन्यस्योत्पत्तिः, कथं तर्हि मृतकायादपि तस्योत्पत्तिर्न स्यात् ? ननूक्तमेवैतत् प्राक् यत् प्राणापानलक्षणपवनाभावात् तत्र चैतन्यं नोत्पद्यत इति, इति चेत् । ननु प्रत्युक्तमपीदं तदैव यज्जीवाभावादेवेति किं न स्यादिति अहो अहो विस्मरणशीलत्वमाचार्यस्य यदुक्तमपि लाघवं विनिगमकतया न स्मरति, भव्यलाघवमेव तवेत्थं वदतो जानामि । उभयसिद्धोऽपि प्राणापाना[ भा] वो जीवाभावमन्तरेणोपपद्यते यतः । कथमेवमभिधीयत इति चेत्, शृणु सावधानमनाः । नहि मृतकाये प्राणापानाभावो निर्हेतुकः, सदाऽभावप्रसङ्गात् । नाऽपि कायाकारनिमित्तकः, जीवदवस्थायामपि तस्य सत्त्वेन तदभावप्रसङ्गात् । नाऽपि कायाकारध्वंसनिमित्तः तस्य तदानीमसत्त्वात् । न चाऽऽन्तरपुद्गलापगमनिमित्तो, निमित्तमन्तरेणाऽऽन्तरपुद्गलापगमस्याऽप्यसम्भवात् । न च कालविशेष एव निमित्तं, अतीन्द्रियकालाङ्गीकारे आत्मानङ्गीकारस्य स्वकदाग्रहमात्र फलत्वात् । तस्मिन्नपि काले क्वचिच्छरीरे प्राणापानाभावस्याऽदर्शनात् । नहि यद् यस्य कारणान्तरनिरपेक्षं अजनकं तत् तन्नोत्पादयति, अकारणत्वप्रसङ्गात् । किन्तु अनन्यगत्या जीवाभावनिमित्तक एव तत्र प्राणापानाभावो भवताऽप्यवश्यं स्वीकरणीय इति कुतः प्राणापाना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229345
Book TitleMahopadhyaya Yashovijayji Ganikrut Atmasamvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages65
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy