________________
अनुसंधान-२०
49 कायाकारपरिणामस्यैव युक्त्याऽनुपपत्तेः । कथं कायाकारपरिणामस्य मन्मते युक्त्याऽनुपपत्तिरिति चेत् । इत्थम् । भवन्मते हि कायाकारपरिणामः किं पृथिव्यादिमात्रनिबन्धन आहोस्विद् वस्त्वन्तरनिमित्त उताऽहेतुकःसङ्गीयते ? । तत्र यद्याद्य: पक्षस्तहि सर्वत्र कायाकारपरिणामप्रसङ्गः, पृथिव्यादिभूतसमुदायस्य सर्वत्र सत्त्वात् । तथाविधसाम्यादिभावसहकारिकारणवैकल्यान सर्वत्र तत्परिणाम प्रसङ्ग इति चेत् । ननु सोऽपि साम्यादिभावो न वस्त्वन्तरनिमित्तः, तत्त्वसंख्याव्याघातप्रसङ्गात्, किन्तु पृथिव्यादिभूतमात्रनिमित्तकस्तथा च तस्याऽपि सर्वत्राऽविशेषेण भावप्रसङ्गात् कुतः सहकारिकारणवैकल्यमिति ? ।
अथ द्वितीयः पक्षस्तदप्ययुक्तं, तथाऽभ्युपगमे सत्यात्मसिद्धिप्रसङ्गात् । तथाभूतवस्त्वन्तरयोगादेव हि विशिष्टकायाकारपरिणामभाव उपपद्यते नाऽन्यतस्तथा च सति न कश्चिद् दोष इति ।
अथ तृतीयः पक्षस्तदा सदाऽभावादिप्रसङ्गः । "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणाद्" इति न्यायात् ।
तन्न त्वन्मते कायाकारपरिणामो घटते । तदभावे तु दूरात्सारितमेव प्राणापानपरिग्रहवत्त्वं भूतानामिति साधूक्तं न तथाविधभूतेभ्यश्चैतन्यमुत्पद्यते इत्यत्र किञ्चित् प्रमाणम् ।
___ किञ्च, प्रत्येकावस्थायामविद्यमानस्य चैतन्यस्य समुदितावस्थामां भूतेभ्य: कथमुत्पत्तिर्घटते ? एकान्तेनाऽसत उत्पादस्याऽभावात्, भावे वा खरविषाणमपि तेभ्य उत्पद्येत, असत्त्वाविशेषात् । न च-भूतानां तज्जननस्वभावतया तस्यैवोत्पत्तिर्न खरविषाणस्याऽपि तज्जननास्वभावत्वात्-इत्यपि वाच्यम् । तेषां तज्जननस्वभावत्वकल्पनाया अयोगात् । अनुत्पन्नं हि चैतन्यं खरविषाणतुल्यमित्यवन्ध्यभावतोऽविशेषेणाऽसज्जननस्वभावत्वमेव परमार्थतो भूतानां भवेदिति तेभ्यश्चैतन्यस्येव खरविषाणस्याऽप्युत्पत्तिप्रसङ्गात् । न च-प्रत्येकावस्थायामविद्यमानाऽपि समुदितावस्थायां मद्याङ्गेभ्यो मदशक्तिरुपपद्यमाना दृष्टा न पुनः खरविषाणं, कारणशक्तिनियमात्; तद्वदत्राऽपि स्यादिति वाच्यम् । मदशक्ते प्रत्येकावस्थायामेकान्तेनाऽविद्यमानत्वासिद्धेः । मदशक्तित्वेन तदानीमविद्यमानत्वेऽपि रूपान्तरेण विद्यमानाया एवोपपत्तेः । अत एव समुदितावस्थायां मद्याङ्गेषु ये गुणास्त्रस्यादय (भ्रम्यादय?)स्ते प्रत्येकावस्थायामपि गुडधातक्यादिषु सामान्यत उपलभ्यन्त इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org