________________
51
अनुसंधान-२० भावस्यैवोभयसिद्धता, येन लाघवात् प्राणापानाभावादेव मृतशरीरे चैतन्याभावो न तु जीवाभावादिति प्रोच्येत ! 'तद्धेतोरेवाऽस्तु किं तेने'ति न्यायेन प्राणापानाभावनिमित्तकजीवाभावादेव तत्र ‘चैतन्याभावस्य स्वीकरणीयत्वाच्च, अन्यथा गौरवप्रसङ्गात् ।
एतेन-'प्राणापानवज्जीवस्योभयसिद्धत्वं नाऽस्ति-इति परास्तं । जीवमन्तरेण प्राणापानलक्षणपवनस्याऽहेतुकत्वापत्तौ सदाभावादिप्रसङ्गात् । कायाकारस्यैव प्राणापाननिमित्तकत्वे मृतकायेऽपि तदुत्पत्तिः, पुनरुज्जीवनापातात् । अत एव सुप्तप्रबुद्धस्य दृश्यते तावच्चैतन्यं, न च तत् तदन्यचैतन्यपूर्वकं, सुषुप्तावस्थायां चैतन्यस्याऽभावात् । उपलभ्यस्य सतस्तदानीमनुपलम्भात् । तथाऽपि चेत्तत्कल्पना तयतिप्रसङ्गः । न चाऽहेतुकं तत्, सदाऽभावादिप्रसङ्गात् । 'सदा सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्' इति वचनात् । नाऽप्यन्यनिमित्तं, तस्याऽप्रतीयमानत्वात् । किन्तु कायनिमित्तमिती'ति कस्यचिन्मतमपास्तम् । चैतन्यस्य कायनिमित्तत्वे मृतावस्थायामपि उज्जीवनप्रसङ्गात् ।
न चैवं सुसप्रबुद्धचैतन्यस्य निर्हेतुकत्वे पूर्वोक्तदोषापत्तिरिति वाच्यम् । अस्य सुषुप्तावस्थाभाविचैतन्यपूर्वकत्वेन निर्हेतुकत्वाभावात् । न च सुषुप्तावस्थायां तत्राऽस्त्येव, स्वसंवेदनमात्रस्याऽव्यक्तस्य तदानीमप्यनुभूयमानत्वात् । अविगानेन तथा लोकप्रसिद्धेः । प्रतिपत्तव्यं च नियमात् सुषुप्तावस्थायां चैतन्यमस्तीति, स्मरणान्यथानुपपत्तेः । तथाहि-स्वप्नादिसुषुप्तावस्थाभाविस्वप्नादिचैतन्यविषयं स्मरणमविगानेनाऽनुभूयते । न चाऽननुभूतस्य स्मरणमुपपद्यतेऽतिप्रसङ्गात् । न च कायान्वयहेतुकतैवाऽस्य, तथाऽप्रतीतेः । तत्स्वरूपसंस्पशिस्मृत्यनु(न)नु भूतेः, तथाऽपि चेदेवं कल्पना तर्हि कुतो नाऽतिप्रसङ्गः ? । न च तथास्वभावत्वसामर्थ्यात् कायादेव तस्मरणमिति वाच्यम् । तस्य तथास्वभावसिद्धौ मानाभावात् । तद् युक्तमिदं यदनुभूतसुषुप्तावस्थाभाविचैतन्यविशेषनिबन्धनं तत्स्मरणमिति सिद्धं सुषुप्तावस्थायामपि चैतन्यमपि(पी)ति कुतः सुप्तप्रबुद्धचैतन्यस्य कायनिमित्तकता स्यात् ? !
किञ्च न व्यस्तकायस्य चैतन्यं प्रति हेतुत्वमभ्युपगम्यते भवता, शिरश्छेदेऽपि तदुत्पत्तिप्रसङ्गात्, किन्तु समस्तकायस्य । तच्चाऽयुक्तं, अङ्गुल्यादिछेदेऽपि चैतन्यस्योत्पत्तिदर्शनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org