________________
मार्च २००९
का ज्ञान और विवेचन करने के लिए यह छन्दोनुशासन ग्रन्थ अत्यन्त उपयोगी
है।
श्रीजिनेश्वराचार्यविरचितं श्रीमुनिचन्द्रसूरि प्रणीत व्याख्योपेतम्
छन्दोनुशासनम्
ॐ नमः सर्वज्ञाय । नत्वा सर्वसमीचीनं वाचागोचरवाजिनम् ।
जिनं जैनेश्वरं छन्दो विवृणोमि यथामति ॥१॥ इहाचार्य: कलुषकालप्रतापलुप्ताद्भुतद्रुतमतिविभवान् अत एव बहुबुद्धिबोध्यपिङ्गलादिप्रणीतछन्दोविचित्तिशास्त्रावधारणाप्रवणान्त:करणान् भूयसोऽद्यतनजनाननुग्रहीतुं गाथाछन्दस्य प्रायः सकलबालाबलादिजनवचनव्यवहारगोचरतया बहूपयोगीत्यवेत्य तदेव संक्षेपतो वक्तुकामो मङ्गलाभिधेयाभिधायिकामिमामादावेव गाथामाह
नभिऊण छन्दलक्खणधेणुं सव्वन्नुणो वरं वाणि । गाहाछन्दं वोच्छं लक्खणलक्खेहि संजुत्तं ॥१॥
इह विघ्नोपशमननिबन्धनतया शिष्टसमाचारतया पूर्वार्द्धन मङ्गलं प्रेक्षावत्प्रवृत्त्यङ्गतया चोत्तरेणाभिधेयं सम्बन्धप्रयोजने च सामर्थ्यादुक्ते इति समुदायार्थः । अवयवार्थस्तु-नत्वा-प्रणम्य, कां ? वाणि- भारति(ती) । किविशिष्टां ? छन्दोलक्खणधेणुं छन्दसां-गाथाश्लोकवृत्तादीनां वचनरचनाविशेषाणां लक्षणं तत्स्वरूपाभिधायकं वचनं लक्ष्यते असाधारणधर्माभिधानेन विपक्षविविक्तं लक्ष्यमनेनेति कृत्वा छन्दोलक्षणं तस्य धेनुरिव-पयःप्रसविनी गौरिव छन्दोलक्षणधेनुस्तां । एषा चाऽविशिष्टा पुरुषकर्तृकाऽकर्तृकाऽपि कस्यचिन्मतेन वाणी स्यात् तद्व्यवच्छेदार्थमाह-सर्वज्ञस्य-सर्वमतीतादि ज्ञातवान् जानाति ज्ञास्यति चेति सर्वज्ञस्तस्य, तत्प्रणीतामित्यर्थः । अत एव वरां-प्रशस्यां परां वा प्रकर्षवतीमन्यस्यास्त्वनाप्तप्रणीतत्वेन विसंवादिनीत्वस्यापि सम्भवाद् अपौरुषेयत्वेन च । वर्ण्यते-भण्यते इति वाणी, ततः पुरुषव्यापारानुगतात्मरूपत्वेन स्वलक्षणस्याप्यनुपपत्तेर्वरत्वपरत्वयोरसम्भव इति । अत्र छन्दोलक्षणधेनुमिति विशेषणेनाऽस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org