________________
.
अनुसन्धान ४७ छन्दोलक्षणप्रकरणस्य तत्प्रस्तुतत्वेन प्रामाण्यमाह-गाथाछन्दो वक्ष्ये । गीयत इति गाथा वक्ष्यमाणलक्षणा तस्याश्छन्दो- रचनाविशेषो गाथाछन्दस्तद् वक्ष्येअभिधास्ये । किंविशिष्टामित्याह-लक्षणलक्ष्याभ्यां लक्षणं-उक्तस्वरूपं लक्ष्यं च लक्षणगम्योऽर्थः ताभ्यां युक्तं संगतमिति । इह नत्वा वाणीमिति मङ्गलं, गाथाछन्दोभिधेयमभिधानं त्विदमेव प्रकरणमभिधाना - भिधेयलक्षणश्च सम्बन्धः प्रयोजनं च कर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च प्रकरणाधिगमः, परम्परं च द्वयोरपि मुक्तिरिति गाथार्थः ॥१॥
इदानीं प्रकृतार्थोपयोगिनीं संज्ञां परिभाषां च तावदाहदीहक्खरं सबिंदुं संजोगविसग्गवंजणपरं वा । गाहादलमंतिमं च गुरुं वंकं दुमत्तं च ॥२॥
-
दीहत्ति । विभक्तिलोपाद् दीर्घं, न क्षरति न चलति प्रधानत्वादक्षरं स्वरसतया विशिष्टमपि स्याद् अतो दीर्घमिति विशेषणादक्षरं ह्रस्वपञ्चकवर्जिता शेषस्वरा, "नित्यं सन्ध्यक्षराणि दीर्घाणी 'ति वचनात् सन्ध्यक्षराणामपि दीर्घत्वाद् । गुरु वक्रं द्विमात्रं च भवतीति सर्वत्र सम्बन्धः । तथा सबिन्दु - सानुस्वारमक्षरमिति सामान्यानुवृत्तावपि ह्रस्वमिति सर्वत्रापि क्रियते, दीर्घस्य पृथगेव गुरुत्वादिभणनेन सबिन्दुत्वादेरनुपयोगात् । तथा संयोगविसर्गव्यञ्जनपरं वा संयोगश्च - द्वयादिव्यञ्जनानां मेलकः, विसर्गश्च प्रतीतो, व्यञ्जनं च ककारादि, संयोगविसर्गव्यञ्जनानि परे यस्मात् तत्तथा । वाशब्दः समुच्चये । तथा गाथादलमंतिमं च। मकारोऽलाक्षणिकः । गाथोक्तरूपा तस्या दले पूर्वापररूपे तयोरन्तिमंपर्यन्तवर्त्ति ह्रस्वमप्यक्षरं, किमित्याह गुर्विति । गुरुसंज्ञं वक्रं रचनायां द्विमात्रं च मात्रागणनायां परिभाय (व्य) ते । अत्र च प्राकृते णादोतो (ऐदौतो) विसर्गव्यञ्जनपरत्वस्य चानुपयोगे आर्याऽपि गाथासदृशी भवतीति वक्ष्यमाणत्वादायत्यामुपयोगसम्भवेनोपन्यास इति गाथार्थः ॥ २॥
साम्प्रतमविशिष्टाक्षरसंज्ञापरिभाषे अधिकृतछन्दत्रययोग्यं अथ (कल्प)पञ्चकस्वरूपं च विभणिषुराह
लहु य पउणेक्कमत्तं सेसं कप्पा य पंच चमत्ता । दो अंत मज्झ आई गुरवो चउ लहु य नायव्वा ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org