________________
श्री प्रव्रज्या श्रीप्रद्यु
॥८॥
निषिद्धा दुर्भगाग्रणीः । कन्या ते दापयिष्येऽन्यामित्यूचे भातुलेन सः ॥६|| निरूपयन्त्योऽरूपं मां, चेन्न स्वजनकन्यकाः । तत् कथं नाम Toll नामापि, सहन्ते मेऽन्यकन्यकाः ? ॥७॥ ध्यात्वेत्यगादलपुरे, प्रेक्ष्य युग्मानि पीडितः । मुमूर्षुः सुस्थिताचार्योधयित्वा व्रतीकृतः ॥८॥
आत्तव्रतः क्रमानन्दिपेणो गीतार्थतां गतः । जग्राहाभिग्रहं ग्लानप्रतिजागरणे गुरोः ॥९॥ प्रतिज्ञामस्य सुत्रामा, संसदि प्रशशंस च । देवः कोsप्यमहिष्णुस्तत्तत्परीक्षार्थमाययौ ॥१०॥ रूपेणैकेन स ग्लानसाधुर्मूर्त्या द्वितीयया । तं षष्ठपारणायात्तग्रासं गत्वेदमूचिवान् ॥११॥ क्षुत्तृषार्तमुनो सातिसारे सति पुराबहिः । वैयावृत्त्ये प्रतिज्ञाय, किं भोक्तुं युज्यते तब ? ||१२|| नन्दिषेणोऽथ मुक्त्वाऽन्नमन्बेष्टुं पानमुद्यतः । लच्या सुरकृतानेषणीयं जित्वाऽम्बु चासदत् ॥१३॥ जगाम च दुतं ग्लानं, चुक्रुशे तेन स क्रुधा । घस्मरं त्वामपि म्लाने, विग वैयावृत्त्यनिश्चितम् ॥१४॥ निजागः क्षमयत्नन्दिषेणो मलमधावयत् । उत्तिष्ठेति बुबन् मायावतिना चुकुशे पुनः ॥१५॥ अक्षम नेक्षसे कि मां ?, ततोऽसेऽप्यधिरोपितः । ऊचे धिग्मुण्ड ! वेगेन, वेगभंग करोपि मे ॥१६॥ व्यधाद् वर्षोऽतिदुर्गन्धं, तस्य मन्दपदं यतः । कथं पटुरयं भावीति दध्यौ म महामनाः ||१७|| ज्ञात्वाऽवधेस्तमक्षोभ्यं, दुग्धाशयमथामरः । गोशीर्षचन्दनेनोच्चैर्विलिलेप मुनेस्तनुम् ॥१८॥ नत्वात
प्रदक्षिणापूर्वमाख्यदिन्द्रकृतां स्तुतिम् । स्वकीयं क्षामयित्वाऽऽगः, किं ददामीति तं जगौ ? ॥१९॥ मुनिनोक्तं जिनस्योक्त, लब्धेऽन्यत् किं नु । Tol याच्यते ? । लब्धे चिन्तामणौ को नु, तत्परः प्रस्तरे भवेत् ? ॥२०॥ तेनेत्युक्तो दिवं देवो, यतिर्वसतिमागतः । पृष्टो
मुनिजनैर्व्यक्तमनुसिक्तं शशंस सः ॥२१॥ द्वादशाब्दसहस्रयन्ते, स्मृत्वा दौर्भाग्यमुत्कटम् । स्त्रीवाल्लभ्यनिदान्येषोऽनशनी शुक्रमासदत् ॥२२॥ . इतः सौरिपुरे राज्ञोऽन्धकवृष्णे: सुता नव । जज्ञिरे श्रीसुभद्रायां, समुद्रविजयादयः ॥२३॥ नन्दिषेणस्य जीवोऽथ, महाशुक्रदिवश्य्युतः । १ दशा) दशमो जज्ञे, सुरूपः सुभगाग्रणीः ॥२४॥ समुद्रविजय राज्ये, विन्यस्यान्धकवृष्णिना। सुप्रतिष्ठान्मुनेरात्तव्रतेनासादि निर्वृतिः ॥२५॥ "निधिभिर्नबभिर्भक्त्या, मेव्यमानोऽनुजन्मभिः । समुद्रविजयो राजा, रेजे चक्रीव जंगमैः ॥२६॥ वयस्थो वसुदेवः स्त्रीनेत्रमानसमोहनः । ।
सरःपद्म इवालीभिः, पौरस्त्रीभिरबेष्ट्यत ॥२७॥ तासां समस्तवस्तूनां, वस्तूनां विक्रयेऽप्यभूत् । सर्वत्र वसुदेवाख्या, युगान्ते जलपूरवत् । ४॥२८॥ यः पटको दुर्भगो दूरीकृत: स्त्रीभिः पदैरपि । न्यस्तः शीर्षे सपद्याभिः, कुम्भत्वे दह्निसाधनात् ॥२९॥ सर्वासामपि रामाणां, वसुदेवकचेतसाम् । श्वभूननान्दृजामातृज्ञातेयो हृदि नावसत् ॥३०॥ वसुदेवांगसौभाग्यविबलं रमणीजनम् । पौरा वीक्ष्य नृपस्याख्यन्निति Mall
॥८१॥