SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्री या यवत्तौ @ 1७७ @ अचित्तेन सचित्तं २ सचित्तेन अचित्तं ३ अचित्तनाचित्तं ४, आदित्रिकं हेयं, तुर्यः शुद्धः४॥ संहतदोपस्तु दानायोग्यं वस्तु पथ्वीकायादा क्षिप्त्वा तेनैव करोटिकादिना देयं वस्तु साधोदते, तदपि निक्षिप्तवत्तुर्य भने कल्पत इति ५॥ दायकास्तु 3 स्थविरप्रभुपण्डककम्पमानगात्रज्वरितमत्तच्छिन्नकरक्रमनिगडितपादुकारूढा हेयाः, तथा खण्डकपेषक भर्जकर्तकलोढकरूतविक्षेपकपिञ्जकदलकविलोडकजेमकगुर्विणीबालवत्साश्च हेयाः ६॥ तथा उन्मिथं सचेतनमचेतनं च मिश्रीकृत्य ददाति, तत्रापि चतुर्भङ्गधामचितामश्र ग्राह्यमिति ॥ अथापरिणतं- द्रव्यं देयं वस्तु न शुद्ध, भावो वा दायकस्याशुद्धः, अथवा द्वयोर्दायकयोरेकस्य ११ भावापरिणतं, अथवा द्वयोः श्रमणयोरेकस्य मनसि शुद्धं इतरस्य न तथा स्यात् तदा न ग्राह्यमिति ८|| लिप्तदोषसंसृष्टं, करमात्रकसाव - शेषद्रव्यैरष्टौ भङ्गाः, यथा संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं १, संसृष्टो हस्त: संसृष्टं मात्र निरवशेषं द्रव्यं २, संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष द्रव्यं ३, संसृष्टो हस्तोऽसंमृष्टं मात्रं निखशेषं द्रव्यं ४ असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं, ५, असंसृष्टो हस्तः संसृष्टं मात्रं निखशेष द्रव्यं ६, असंसृष्टो हस्तः असंसृष्टं मात्र सावशेषं द्रव्यं ७ असंसृष्टो हस्तोऽसंसृष्टं मात्रं निखशेषं द्रव्यं ८, सावशेषद्रव्यभङ्गेषु ग्राह्यं, परेषु हेयमिति ८11 छर्दिते मधुर्बिदुदृष्टान्तः, तथा ह्यस्ति पुरी चम्पा, सस्यसम्पातसुन्दरा । निष्कम्पा परसैन्यैस्तु, शम्पा विप्लवभूरूहाम् ॥१॥ तत्र मित्रप्रभो द्वेषितिमिरर्धिकदम्बके । नृपो मित्रप्रभो नाम, पद्मोल्लासकरैः करैः ॥२॥ लक्ष्मीसंचारिणी तस्य, चिन्तासन्तापहारिणी । देवी तु धारिणी नाम, शीलादिगुणहारिणी ॥३॥ तस्यास्ति सचिवो धर्मघोषः पोषयिता श्रियः । प्रियंगुसात्म्यतरतस्य, प्रियंगुर्नामतः प्रिया ।।४|| अपरा अति सन्त्यस्य, दयिता दयिताहृदः । ताभिः करेणुभिः कालं, करेणुरिख सोऽनयत् , ॥५॥ तत्रास्ति धर्ना पाख्यः, सार्थवाहो महाधनः । द्विधापि चित्तप्रेयस्या, राजमानो धनश्रिया ॥६॥ तस्योपयाचितशतैर्याचितस्यतनयोजनि । स्वकायप्रभया दीप्तः, प्रभां तन्वन्नतिप्रभाम् ॥७॥ अजाते तत्र सजाते, धनमित्रो धनाधिपः । मुदितो विदधे वर्धापनमृद्यनुसारतः । ८|| सुजातमस्य यो जातः, कुलेऽस्मिन् धनसंकुले । अस्तोकमिति लोकस्य, गिगः सर्वत्र विस्तृताः ॥८॥ इत्याकण्यं वचः कर्ण्य, जनकौ १ जनसम्मतं । विदधाते तस्य नाम, सुजात इति विश्रुतम् ॥९॥ तेन प्रवर्द्धमानेन, कलाकौशलशालिना । रूपेण च कलाभिश्च, विबुधत्वमुपाददे Moto१०॥ सुश्रावककुलोत्पत्त्या, सततं साधुसङ्गमात् । परमः श्रावकः सोऽभूद्, विचाराचारशिक्षितः ॥११॥al ॥७७॥ @
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy