________________
६७॥ भरता भरतो नव्यः, सैष भूषणभूषितः । आदर्शगृहमध्यास्त, सार्द्ध तैः पञ्चभिः शतैः ॥६८1। रूपं निरूपय॑स्तत्र, गलितादंगुलीयकात् 1 fol अन्याभ्योऽन्यादशीमेकां. निःश्रीकामैक्षतांगुलिम् ॥६९।। विच्छायां प्रेक्ष्य तामन्यांगुलीभ्याऽप्ययमूम्मिकाः । शिरसः शेन्वरं कर्णयुगलादपिल)
कुण्डले ७०|| हारं कण्ठाद् भुजयुगादंगदे कंकणे त्यजन् । स इत्थमंगं निष्प, पद्माकरमिवैक्षत ॥७१।। तत: मावेगसंवेगो, भावनाभावनादयम् । उत्पाद्य केवलज्ञानं, कुन्तलानुदपाटयद् ॥७२।। शतानां पञ्चकं तच्च, तदीयाभिनयं दधत् । विभूषणोज्झनं केशोल्लुचनं च विनिर्ममे ।।७३॥ गृहीतद्रव्यलिङ्गो दाग, धर्मलाभं प्रदाय सः । भरतो भरतो रंगमध्यान्निति यावता ||७४ा ताबद्राज्ञा च तद्राजीभिश्चर धतुं समीहितः । ऊचे निवृत्तः किं चक्री ?, न निवर्तेऽहमप्यतः ॥७५॥ सापि पंचशती राजपुत्राणां द्रव्यलिंगमा । जगाम सह तेनैव, गुरुपादयुगान्तिकम् ।।७६॥. पुनश्च पाटलीपुत्रे, तदीयाभिनयेक्षणात् । बैराग्यरंगितस्वांतः, प्रववाज घनो जनः ॥७॥ न ग्राह्य इत्ययं ४ मायापिण्डः श्रमणसत्तमैः वृद्धप्राघूर्णकग्लानकार्य मुक्त्वा कदाचन ॥७८॥
अथ लोभपिङ :,- तत्रोदाहरणं केशरकसाधुः, एवं चैतत्-चम्पायामुत्सवदिने, मासक्षपणपारणे 1 द्विपक्षक्षपकः कश्चिदित्यभिग्रहमग्रहीत ॥१॥ तस्य चालभमानस्य, मोदकांश्चित्तमोदकान् । संक्लिष्टपरिणामेन, विकलत्वमजायत ॥२॥ बदतो धर्मलाभस्य, स्थाने केशरमोदकान् । JO अभून्निशा न तु भ्रान्तो, भिक्षाभ्रान्तिं मुमोच सः ॥३॥ यामिनीयामयुग्मे स, श्राद्धस्यैकस्य सद्मनि । स्थानके धर्मलाभस्याबदत्
के शरमोदकान् ॥४॥ चित्तं चलं परिज्ञाय, मुनेः सुश्रावकः स तु । केशराणां मोदकानां, भृत्वा भाजनमभ्यगात् ।।५॥ पात्रे वैकल्यमात्रेणाकृष्टे तेन । स मोदकान् । दत्त्वा तत्प्रतिबोधाय, धृतोपायस्तमब्रवीत् ॥६॥ भगवन् ! यामयुग्मस्य, प्रत्याख्यानं मया कृतम् । तत् सम्पूर्ण ने वाऽपश्यदुत्पश्योऽथ मुनिनभः ॥७॥ स निरीक्ष्य सनक्षत्र, तत्र नक्षत्रनायकम् । प्रत्यागतमनाः प्राह, प्रेरणा श्राद्ध ! सुष्ठु ते ॥८॥ उक्त्वेति । नगरीमध्याग्निर्गत्य स सचेतनः । मोदकानिष्टिकापाकभस्मकश्मलितान् व्यधात् ॥९॥ चित्तवैकल्यदानेन, मुनिः कश्मलितः स तैः । शुषेव of तांस्तथा कुर्वन्, कृतप्रतिकृति व्यधात् ॥१०॥ कृतपुण्यसुतस्येव, तस्य मोदकचूरणे । करेऽभूत्केवलं रत्नं, भवाम्बुध्यम्बुपाटकम् ॥११॥ चित्तेन
निजवैकल्याद्यदेष भ्रमितो मुनिः । सर्वथा नाशयामासातीब तल्लब्धकेवलः ॥१२॥ क्वैतादृक् क्षपकः साधुस्तादृक् सुधावकः क्व च? 183 IMo| तस्मान्न साधभिर्यायो, लोभपिण्डः कदाचन ॥9311