________________
श्री प्रव्रज्या०
श्रीप्रधु'न्मीयवृत्ती
॥६६॥
संगमस्थविराचार्यप्रवृत्त्यन्वेषणाकृतं ॥ ११ ॥ प्राग् यंत्रांपाश्रयेऽभवत् क्रमान्तत्रैव सन्ति ते । तान्नित्यवासिनो मत्वा सोऽस्थात् पृथगुपाश्रये ॥१२॥ तान्नत्वाऽवज्ञया भिक्षाक्षणे तैः सह यातवान् । अज्ञातोच्छपरिभ्रान्त्या, क्लिष्टः शिष्यो व्यचिन्तयत् ॥ १३ ॥ शाठ्येन भ्रमयत्येष चिरं प्रान्तकुलेषु माम् | भिक्षामादास्यते भद्रकुलेषु स्वयमेव तु ॥ १४ ॥ तं क्लिष्टचेष्टितं मत्वा सूरिराच्यगृहेऽविशत् । बालकं पूतनाग्रस्तं, क्रोशतं तत्र चैक्षत ॥ १५ ॥ तत्तश्चप्युटिकं दत्त्वा मा रुदस्तं गुरुर्जगी । तत्तपोऽचिन्त्यसामर्थ्यान्नष्टा च कटपूतना ॥ १६ ॥ पण्मास्या विरते तत्र, बालके नित्यरोदनात् । मुदिता मोदकापूर्ण, तस्याम्बा स्थालमानयत् ॥ १७॥ आदत्स्वेदमिति प्रोक्ते, गुरुणा करुणावत्ता । दत्तो गृहीत्वा |पयाप्तमुपाश्रयमुपागमत् ||१८|| विहत्य प्रान्तगेहेषु, सूरयोऽपि समाययुः । विदधुर्विधिनाऽऽहारं विधेयमनसश्च ते ॥ १९ ॥ आवश्यकस्य वेलायामयमालोचनक्षणे । गुरुभिर्गदितो भद्र ! सम्यगालोचनं कुरु ॥ २० ॥ स प्रोवाचाथ युष्माभिः सहेब विहृतोऽस्म्यहम् । किमत्राशुद्धमे वास्तीत्युक्ते च गुरुरब्रवीत् ॥२१॥ धात्रीपिण्डस्त्वया सूक्ष्मो भुक्तश्चप्पुटिकावशात् । पूतनायाः प्रतीकारात्, चिकित्सापिण्ड एव च ॥२२॥ | दध्यौ शिष्योऽथ मे दोषनेष सूक्ष्मानपीक्षते । स्वकीयान्नित्यवासादीन्, मेहतोऽपि सतो न तु ॥ २३ ॥ स्वच्छिद्रालोकने लोको, वक्रः शुक्रसमोऽपि न । स एव हि सहस्राक्षः, परच्छिद्रेक्षणक्षणे ॥ २४ ॥ ध्यात्वेत्यगात् कुधापूर्णस्तूर्णमाश्रयतो बहिः । जज्ञे गुरुषु वामं तं यथासन्निहिता सुरीं ||२५|| विदधे दुर्दिनं वातं कर्कशं सा सशर्करम् । घनाघनां धनस्यापि वृष्टिं तद्विद्रवेच्छया ॥ २६ ॥ तयेति दूयमानो २ऽयमतिविह्वलमानसः । गुरुनजूहवद् वत्सागच्छेति तैस्तु भाषितः ॥२७॥ स प्राह वसतिद्वारं न पश्यामि तमोवशात् । पुरा क्रोधवशात् ] त्यक्तं तत्तेन कथमीक्ष्यताम् ? ॥ २८ ॥ श्लेष्मश्लिष्टकरांगुल्या, प्रकाशे गुरुणा कृते । स दध्यौ दीपकोऽप्यस्ति, कथं गुरुपरिग्रहे ? ॥२९॥ समागतो गुरोरन्ते, स्वस्य संस्तारकं व्यधात् । गुरुणाऽथांगुलीदीपे, हृतेऽभूद् दुस्तमं तमः ॥ ३० ॥ बाळं सन्तमसं तेन भाषिते सूरयो जगुः । विहरन्तो भवन्तः किं, सदीपाश्रयवासिनः ? ॥ ३१ ॥ ततः सापत्र शिष्ये, सैत्य शास्ति स्म देवता । पतित्वा पादयोः शिष्यो, गुरुमक्षमयत्ततः | ॥३२॥ प्रायश्चित्तं गुरुप्रोक्तं, प्रीतिमान् प्रत्यपद्यत । मत्वेति धात्रिकापिण्डो, नोपादेयः सुसाधुभिः ॥ ३३ ॥ १ ॥
अथ दुतीत्यदोषः, स प्रकटपच्छन्नसन्देशकथनेन मिथः स्यात्, तत्रोदाहरणम विरोधी ग्रामयोससीद, द्वयोरपि परस्परम् । तयोरेप्राणी
८ प्रव्रज्या
स्वरूपे उत्पादना दोषाः १६