________________
शरणं व्यधात् ।।१३।। कुटीरे माणिभद्रेण. तृणच्छन्ने निर्पिते । शुद्धायां सूरयाऽप्यूक्मवात्सुः सपरिच्छदाः ।।१४।। सार्थेऽश शीणपाथेये, सार्थदौःस्थ्यं पुनः स्मरन् । तं प्रासुकाघरं सूरिं, स्मरधसारमस्मरत् ।।१५।। ततोऽथ माणिभद्रेण, समं सूरीन् मुनीनपि । ननाम धर्मलाभाशोलाभपि स्वं निनिंद च ।।१६।। बोधितः सूरिभिर्दत्तबाधिः शोधितमानस . । सानामन्त्र्य नुवाज्ये, मग प्रायलापरन् ।॥१७॥ धृतेन तेन संसिक्तं,
बोधिबीजं तथा यथा । यशः प्रसूनमाईत्यं फलं तस्य भविष्यति ।।१८॥ अन्वहं सूरिपार्थस्यः, सोऽथ सुश्रावकोऽभवत् । तच्चित्तवृत्तित्कर्मशुचाउथ ॥२९॥
शरटाऽऽगमत् ।।१९।। प्रस्थितोऽथ ससूरीशः, श्रीवंसन्तपुरं गतः । विक्रीतक्रीतभाण्डः सन्, धनः पश्चात्ततोऽवलत् ॥२०॥ क्षितिप्रतिष्ठिनं प्राप्य, प्राप्तविश्वप्रतिष्ठितः । सफलं दानभोगाभ्यां, विधत्ते स्म धनं धनः ।।२१।। पूर्णायुः कालतो युग्मधर्मोत्तरकुरुष्वभूत् । स्वच्छबुद्धिरमो धर्मे, सौधर्मेऽतः सुरोजान ॥२२॥ अथापरविदेहेऽस्ति, विजयो गन्धिलावती । तद्वैताढास्थगान्धारदेशे गन्धसमृद्धके ।।२३।। विद्याधरपुर राज्ञश्चन्द्रकान्तांगभूरभूत् । न्युत्वा शतबलस्यैप, पुत्रो नाम्ना महाबलः ॥२४॥ युग्मम् ।। तमधीतकलं लब्धयौवनं च पिता न्यधात् । राज्य प्राज्येन भावेन, स्वयं तु व्रतमग्रहीत् ॥२५।। महाबलं नृपं भागासक्तं संगीतक ऽन्यदा । निविष्टं न्यगदन्मन्त्री, स्वयंबुद्धोऽस्य दोधकृत ।।२६।। देवायं नृभवो दिव्यो, यदि संगीतकादिभिः । हार्यते हार्यतेऽकस्माद्, भवः कल्याणमुत्तमम् ॥२७॥ राज्ञोने समयो नायं, मन्त्र्याह समयो ह्ययम् । तवायुर्मासमात्र यन्मत्पृष्टज्ञानिनाऽऽख्यत ॥२८॥ अन्यच्च राजा स्वप्ने स्वं, क्षिप्तं कूपेऽन्यमन्त्रिभिः । त्वयोद्धृतमपश्यच्च, तत् त्वं यात्वा प्रबोधय ।।२९।। युग्मम् ।। जातप्रतीतिस्तद्वाक्ये, कृताष्टानमहोत्सवः । द्वाविशतिजिनं भूपो, व्रती भूत्वाऽनशन्यभूत्
|३०|| ईशाने ललिताङ्गाख्यौ, देवो देवी स्वयंप्रभा । तस्यासीत् प्रेमबद्धाऽपि, सा न्युता तत्सुखैः सह ॥३१॥ स्वयम्बुद्धोऽप्यनशनाट्. II दृढधर्माभिधः सुरः । तत्र तं दु:खिनं मत्वाऽस्याः कथां तत्पुरोऽवदत् ।।३२।। जज्ञे सा धातकीखण्डप्राग्विदे हैकमण्डने । सनान्दग्राम दरिद्रस्य, नागिलश्रेष्ठिनः सुता ।।३३।। अग्रेऽपि पुत्र्यस्तस्यासन् सप्त तस्यास्तू जन्मनि । नाम्न्यकृतेऽभिधाहीना, सोक्ता निर्वामिका जनैः ॥३४|| प्रौढापि नोढा केनापि, दुर्भगा सा गताऽन्यदा । आनेतुं समिधां भारं, नभस्तिलकपर्वते ॥३५॥ युगन्धरर्षि वीक्ष्यात्र , नत्वा स्वं दुःखमूचुषी । चतुतिजदु:खानि, जल्पता तेन बोधिता ||३६।। गृहीतानशना साऽस्ति, मुनेस्तस्य पुराऽधुना । तस्यास्त्वं दर्शयात्मानं, यथा सा स्यात् स्वयंप्रभा ॥३७।। इत्युक्ते दृढधर्मेण, ललितांगस्तथाऽकरोत् । साऽपि