SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्री नवज्या० श्रीप्रद्युनयवृत्ती ॥२८॥ || २ || बोधिदुष्प्रापतानाम द्वितीयं तृतीयं प्रव्रज्या दुरापत्वद्वारम् !! अथबोध दुष्प्रापतानाम द्वितीयं द्वारं गाथाप्रथमार्द्धन तृतीयं प्रवज्यादुरापत्वद्वारं चीत्तरार्द्धन सूत्रकर्ता प्रथयतितस्यवि बोही जिणदेसियंमि धम्मंमि निक्कलंकम्मि । पव्वज्जापरिणामो सुकयप्पुन्नस्स जड़ होड़ ॥२॥ तत्रापि मनुजवे प्राप्ते आर्यदेशशुभजातिसकलेन्द्रियपाटवजीवितव्यसनमनोवासनावासाधु (श्रमणोपासकावासादि) सामग्रीसाधुसत्रिधिश्रवष्वग सत्सु बोधिर्जिनदेशिते - विजितरागद्वेषदेवताप्ररूपिते धर्मे-दुर्गतिपतज्जन्तुजातसमुद्धरणसमर्थ निष्फलंके सकलमलकलंकविकले, दुर्लभेति गम्यते, प्रव्रज्यापरिणामस्तत्र बोधिप्राप्तवपि सुकृतपुण्यस्य यदि स्यादिति गाथार्थः ॥ तत्र बोधिद्वारं प्रथमं विव्रियते इह हि भरतपञ्चके एरवतपञ्चक चोत्सर्पिण्यवसर्पिणीरूपकालद्वये दशदशसागरेपमकोटिकोटिप्रमाणे एकमेव सागरोपमकोटाकोटिप्रमाणं किञ्चिदूनं यावज्जिनधर्मः प्रवर्तन, प्रथमे आरकत्रये युग्मधर्मित्वात् षष्ठे बिलवासित्वात् तृतीयारप्रान्तानुर्यारकं पञ्चमारकं न यावज्जनधर्म्मप्राप्तिरित्यत्यंतदुर्लभत्वमस्य भरतक्षेत्रापेक्षया, स च जिनधर्मः प्रथममस्यामवसर्पिण्यां प्रथमतीर्थकृता श्रीऋषभेण प्ररूपितः, ततस्तच्चरितं लेशतः प्रोच्यते आस्तेऽपरविदेहीविभूषणनिभं पुरम् । क्षितिप्रतिष्ठितं तत्र धनो नाम्ना महाधनः || १ || सार्थवाहोऽर्थिनां बन्धुः स वसन्तपुरं प्रति । वणिज्यार्थं प्रभुनार्थं सार्थ कृत्वाऽन्यदाञ्चलत् ॥२॥ बहिरावासितायास्मै, समेत्य स्वं सहागमम् । सूरयो धर्म्मघोषाख्या, आख्यन् सोऽप्यन्वमंस्त तान् ॥३॥ तदा तस्योपटां पक्वाप्राणि | कश्चिदुपानयत् । स चोपनिन्ये सूरिभ्यस्तेऽभ्यधुस्तमिति स्फुटम् ||४|| संसिद्धमन्नं निर्बीज फलं न प्रासुकं जलम् । अकृताकारिताक्रीतमप्यन्न परिकल्पते ॥५॥ सार्थवाहस्ततः प्राह मध्येसभमिदं वचः । अहो निलभताऽमीषामहो दुष्करकारिता ||६|| प्रशस्यैवं च दास्ये वः, कल्प्यमेवेत्युदीर्य सः । प्रणम्य प्रेष्य तान् प्रातः, प्रयाणमकरोद्धनः ॥७॥ वृषभैः करभैर्यानैरश्वैरश्वतरैर्नरैः । ऊढा तस्य क्रयाणाली धनवातैरिवावनिः ॥८ ॥ सूरश्रीधर्म्मघोषश्च बजन् साधुव्रजान्वितः । रुरुने रुचिमालीव, स्वकीरैः सहरंस्तमः ॥ ९ ॥ तदा ग्रीष्मार्कतापेन, शरीराणि शरीरिणाम् । चित्तं चन्द्रादितापेन, तापमापुरनर्गलम् ॥१०॥ तमेव ग्रीष्मजं हत्वा कर्तुं स्वामिव सर्वतः । विश्वंभरां नवाम्भोदपयः पूरैरपूरयत् ॥११॥ रथपादैश्च पादैश्च, क्षुण्णा क्ष्मा यानमानवैः । पुरा तान् समयं प्राप्यापातयत् पंकसंकटे ॥१ २॥ ससार्थः सार्धपो रुद्धपथ: पाथोदपाथसा । कार्यं विचार्यारण्येऽपि शरण्यः रोधि ग श्री भ चरित्र ||२८||
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy