SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीषान्मीयवृत्तौ ॥३०॥ तद्गतचित्ताऽभूत, पुनरेव स्वयंप्रभा ||३८|| भूयस्तया समं भोगंर्गत भूवस्य नेहसि । तस्य व्यवनचिह्नानि ललितांगस्य जजिरं ॥३९॥ तदेशानेन्द्रनिर्देश यात्रां नन्दीश्वरादिषु । दृढधम्र्मोऽवदत्तस्य, तथा कुर्वश्च्युतश्च सः ॥ ४० ॥ जम्बुद्वीपविदेहेषु शोतानतरे तटे । विजये पुष्कलावत्यां लोहार्गलपुरेशितुः ॥। ४१ ।। सुवर्णजंघभूपस्य लक्ष्मीकुभितोऽभवन् । वज्रजंघारख्यया पुत्रः क्रमात् प्राप्तश्च यौवनम् ॥४२॥ युग्मम् ॥ स्वयंप्रभाऽपि तत्रैव, विजये पुण्डरीकिणी । पुरी तस्यां वज्रसेनतीर्थकुच्चक्रवर्तिनः ॥४३॥ सुताऽभूच्छ्रीमती नाग्ना, जजे चान्यूनयाँवना । तत्स्वयंवरणे पित्राऽऽहूता दूतैर्नृपात्मजाः ॥ ४४ ॥ युग्मम् ॥ श्रीमत्या च पुरोपान्ते, केवल्यन्तिकमागतान् । देवान् वीच स्मृता जातिः स्मृताः पूर्वभवा निजाः || ४५ ॥ सखीमुखेन विज्ञप्तं राज्ञः स्वचरितं तया । ललितांगात् परो नैव वरो में चिन्त्य इत्यपि ॥ ४६ ॥ ततो निर्नामिकाद्यन्तवृत्तं चित्रपटस्थितम् । न्यवनान्तं समं धात्र्या, स्थापितं राजवर्त्मनि ॥४७॥ कुमारैर्बहुभिदृष्टं निर्व्यूढास्ते तु तत्र न । वज्रजंघस्तु तद् दृष्टवा मुर्च्छया न्यपतद् भुवि ॥१४८ || चन्दनव्यजनाही स स्वस्थां जातिस्मरोऽजनि । श्रीमती साक्षिकं पृष्टो धात्र्या • किमिदमब्रवीत् ॥४९॥ नभस्तिलकनामायं, गिरिरित्यादिकं वदन् । श्रीमत्या स वृतो वृत्तविवाहः स्वपुरं ययौ ॥५०॥ पिता प्रमुदितश्चक्रे क्रमाद्राज्यश्रिया वधूम् । सपत्नीसहिता सा तु ससुता नमिता तया ॥ ५१ ॥ अन्यदाऽऽत्तव्रते वज्रसेनार्हत्येतदंगजः । राजा पुष्कलपालोऽस्य, ' सामान्तैः सह विग्रहे ॥५२॥ साहाय्यं श्रीमतीजानिः कर्तुं सदयितो व्रजन् । दृग्विषोऽवाहिरित्यन्यवर्त्मनाऽनायि मन्त्रिभिः ||५३॥ युग्मम् ॥ तं च प्रणतसामन्तमापृच्छ्य पुनरापतन् । विज्ञप्तो मन्त्रिभिर्देवो देवाः केवलिनोर्महे ॥ ५४ ॥ आजग्मुस्तत्तनुद्योतात् प्रहतं दृगविषे विषम् । तौ च स्तस्तत्र तद्यास्तु, ऋजुनैव पथा प्रभुः ॥ ५५ ॥ युग्मम् । तत्रैत्य तौ प्रणम्याथ, तयौराकर्ण्य देशनाम् । सुतं राज्ये निधास्यामीति ध्यायन् स्वपुत्रं गतः ॥५६॥ राज्यलोभात्तनुजेन विषधूमाद्विनाशितः । रात्रौ सुप्तः सभार्योऽपि युग्मीभूत्वा सूरोऽभवत् ॥५७॥ वज्रजंघस्य जीवोऽथ जम्बूद्वीपविदेहजे । क्षितिप्रतिष्ठितपुरे, च्युत्वा सौधर्मकल्पतः ॥५८॥ वैद्यस्य सुविधेः पुत्रो, जीवानन्दाभिधोऽजनि । बभूव श्रीमतीजीवः, श्रेष्ठिपुत्रस्तु केशवः ॥ ५९ ॥ तत्र चेशानचन्द्रस्य, राज्ञः सूनुर्महीधरः । गुणाकारः सुबुद्धिश्च श्रेष्ठितमन्त्रिसुतावुभौ ॥ ६० ॥ सार्थवाहसुतः पूर्णभद्राख्यः षट् च ते युताः । रेजुः 'परोपकाराय, रसा इव रसातले ॥ ६१ ॥ विशेषकम् ॥ सर्वेष्वप्युपविष्टेषु जीवानन्दगृहेऽन्यदा । गुणाकराभिधो भिक्षाकृते राजर्षिरागमत् ॥६२॥ दृष्टा सकृमिकृष्ठं तं भिषजं प्रत्यवोचत । कलाभृत्त्वं मुनीशेऽस्मिन्नियोजय निजा कलाम् ॥६३॥ स प्राह चिन्ते गोशीर्षचन्दनं Callpe दी श्री ऋषभ चरित्र ||३०|
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy