SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ समादिशति सादरम् ॥ २०५ ॥ कुशलं मे त्वयाऽपि स्व, विज्ञप्यं कौशलं प्रिये ! कार्य चाहे पात्रदानाद्भवेऽप्यत्र नृपोऽभवम् ॥ २०६ ॥ यच्च दानं मुनेर्दत्तं तद्भक्त्या देवता मम । तुष्टा वरं वृणु प्राह याचिता च मयेति सा ॥२०७॥ इभकुम्भस्तनी त्वं च राज्यं नेशसहस्रयुक् । ददौ लातं मया राज्यं त्वां विना ध्वान्तवृत्तवत् ॥२०८॥ मत्वेति नृपमापृच्छ्यागत्य राज्य सनाथय। त्वत्प्रतिज्ञातनिर्वाहायैव राज्यमभूदिति ॥ २०९ ।। लेखमेषाऽनिमेषाक्षी, वीक्षमाणा क्षणे क्षण । न तृभ्यति स्म सद्वर्णं, साक्षात् प्रियसमागतम् ॥ २२० ॥ सानभोजनवत्राद्यैः, प्रियसन्देशहारकम् । अमानमानसप्रीतिस्तं सन्मानयति स्म च ॥ २१२ ॥ सोऽथ गत्वा नरेन्द्रस्याप्युपायनमुपाययत् । स्वस्वामिवाचिकं वानि, करोति स्म तथेदृशम् ॥ २१२ ॥ देव ! श्रीमूलदेवस्त्वां नृपीभूतो वदत्यदः । देव ! प्रसद्य मे देवदत्तां सत्याकरोत्विति ॥२२३॥ तदीयं राज्यमप्येतद्देवदत्तेति किं नृपः (पुनः) । इत्युक्त्वाऽञ्हणाय्य तामाख्यद, दूतसद्भूतभाषितम् ॥ २२४॥ महाप्रसाद इत्युक्त्वा, सा किरीट्यकरोत् करौ । तां नृपः प्रमनाः प्रैषीद्दास्या परिवृतां ततः ॥ २१५ ॥ बेनातटं समायाता महर्द्धया च प्रवेशिता । नराधिपेन यत्तस्य, सर्वस्वं जीवितं च सा || २१६ || तयोर्नरेन्द्रयोः प्रीत्या राज्यमेकमिवाभवत् । निर्भरं च प्रेम देवदत्ताविक्रमराजयोः ॥ २१७ ॥ मूलदेवनृपः सार्द्धं तथा सुखनिमग्नधीः । बभूव नैत्यविम्बादिविधानार्चनतत्परः ॥२१८॥ इतश्चागण्यपण्याढ्योऽचलः पारसकूलतः । वेनातटं तटं प्राप्तोऽपृच्छत् पृथ्वीशनाम सः || २१९ ।। राजा विक्रमराजोज, शक्रविक्रमसंक्रमः । ज्ञात्वेति भाजनं रत्नसम्भृतं प्राभृतं व्यधात् ॥ २२० ॥ नत्वा नृपं निविष्टोऽयं विष्टरे तेन दापिते। स राजा प्रत्यभिज्ञातो नाचलेनाचलापतिः ॥ २२२ ॥ नृपोऽपृच्छत् कुतः श्रेष्ठिन् ! सोचे पारसकूलतः । अथ ताम्बूलवस्वाद्यैर्नृपस्तं बह्वमानयत् ॥ २२२ ॥ स प्राह प्रेष्यतां देव !, कोऽपि पण्यं निरूप्यते । स्वयमायामि राजोक्ते, प्रसाद इति सोऽवदत् ॥ २२३ ॥ विद्वेषिकुलकालोऽयं तत्र पंचकुलान्वितः । गूढकोपो ययौ गोपोऽन्तरप्राप्ताशुशक्षणिः || २२४ ॥ चन्दनागुरुमञ्जिष्टाशंखपूगफलादिकम् । तेन पञ्चकूलाध्यक्षं दर्शित स्वक्रयाणकम् ॥ २२५ ॥ एतदेतावदेवेति ? राज्ञोक्ते, सोऽवद्ध्रुवम् । राज्ञा पञ्चकुलं प्रोचेऽर्द्धदानीक्रियतामयम् ॥ २२६ ॥ समक्षं मम सर्वं तत्तुलायां तोल्यतां पुनः 1 तस्यान्तश्चाल्पमूल्यं च बहुमूल्यं विभाव्यताम् ॥२२७॥ पदप्रहारतद्धारशल्यवेधैश्च लक्षितम् । मञ्जिष्ठास्थानमध्यस्थं रूप्यरैविद्रुमादिकम् ॥ २२८ ॥ तत्पाटने च तद् दृष्टं रुष्टोऽथ नृपतिर्जगौ । निजान्निबध्यतां बाढमेष प्रत्यक्षतस्करः ॥ २२९ ॥ वेपमानवपुर्बद्धो भटैरथ मदोत्कटैः । शिक्षामारक्षकेभ्यो ॥२५
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy