________________
२१॥
।
चिरम् ||१०६ ॥ चित्ते चिरं विचिन्त्येति, प्रोचे प्रज्ञाबलाऽचलम् । गुप्तस्त्वमेधि मेधावित् !, कृत्वाऽलीकप्रवासिताम् ॥१०७॥ प्रविष्टां मूलदे वोऽथ, त्वयाऽभ्येत्य भटैः सह । विमाननीयो देशेऽपि न यथाऽत्र वसत्यसी ॥ १०८ ॥ तथास्थेऽस्मिन् मूलदेवमाहूतं देवदत्तया । कुट्टिनी कपटे पट्वी, सार्थेशस्य न्यवेदयत् ॥ १०९ ॥ तस्मिन्नकस्मादायाते, स्वभटैः साकमुत्कटैः । साऽतुल्यं दधती शल्यं, पल्यंकाधः प्रियं न्यधात् ॥११०॥ तं विज्ञाय च पल्यंके, निःशकेन हृदाऽचलः । उपाविशदयं दक्षः प्रोचे च गणिकामिति ॥ १११ ॥ कुरुत स्नानसामग्री, वेश्या प्राहैबमस्त्विति । उत्तिष्ठताभ्यङ्गकृते, वराशिं परिधत्त च ॥ ११२ ॥ अवांचदचलः स्वप्नं दृष्टोऽद्य वदिमेदरम् वनेः खट्वास्थितोऽभ्यक्तः, स्नातश्चैतत्ततः कुरु ॥ ११३ ॥ सर्व विनश्यते वेश्याप्रोक्ते प्रोचेऽचलः पुनः । दास्ये तूलीदुकूलाद्यं सुचिरं रुचिरं परम् ॥११४॥ कुट्टिन्या त्वे वमित्युक्ते, तया तत्र स्थितोऽपि सः | अभ्यंग्योद्वर्त्तितः खल्या, स्नपितश्च जलैरपि ॥ ११५ ॥ पतिता मूलदेवस्योपरि स्नानाम्भसा चसाः । अदत्त देवदत्तायाः, स्नेहस्येव जलाञ्जलिम् ॥ ११६॥ अचल: प्लावयामास, स्नाननीरेण तत्प्रियाम् । प्रेमश्रीर्देव दत्तायास्तत्राशुष्यत्तदाऽद्भूतम् ॥ ११७ ॥ अधःस्थे मूलदेवेथ, भृतेऽखिलमलांभसा । कुट्टिनी संज्ञयाऽभ्येयुर्भटाः प्रकटहेतयः ॥ ११८ ॥ मूलदेवंगृहीत्वा च व्यालैर्व्याल इव द्विपः । गर्जन्नुवाच पश्यास्ति, कश्चित्ते शरणं यदि ॥ ११९ ॥ सोऽथ स्वं वेष्टितं मत्वा वैरिभिर्नष्टचेतनः । निरायुधं च प्रोचे तं कुरु स्वरुचितं ननु ॥ १२० ॥ अचलोऽचिन्तयत् कश्चिदयं हि पुरुषोत्तमः । आकृत्या ज्ञायते कस्य, स्खलितं न भवे भवेत् ? | ॥ १२१ ॥ उक्तञ्च कः सुखी नित्यं ?, कस्य लक्ष्मीश्च निश्चला ? । स्खलितं कस्य न स्यात् ? कः खण्ड्यते नैव दैवतः ? ॥ १२२ ॥ ध्यात्वेत्यूचे भवानेवंविधाऽवस्थास्थितो मया । अमोच्यहं त्वया मोच्यस्तद्दैवाद् व्यसने सति ॥ १२३ ॥ द्विधाऽप्युत्तीर्णनीरोऽसौ निर्गतो मन्दिराद् द्विधा । सस्नौ स्पृष्टांत्यजेनेव, सचेलः सरसोऽन्तरे ॥ १२४ ॥ दध्यौ च मान्ययं मानम्लान्या प्रग्लानमानसः । गत्वोपायं क्वचित् कुर्वेऽमुं प्रति प्रतिविप्रिये ॥ १२५ ॥ मित्रेषु नोपकुर्वति, नापकुर्व 'ति शत्रुषु । ये नराः केन राजन्ते ते मानं मानशालिषु ? ॥ १२६ ॥ ध्यात्वेति समयज्ञो ऽयं भिक्षया प्राणवृत्तिकृत् । दुःखवार्द्धितटं बेन्नातटं प्रत्यचलत्ततः ॥ १२७॥ पर्यश्वाटवीमेकां, प्राप द्वादशयोजनीम् ! विशान्निः शम्बलो निःसहायश्वास्यां व्यचिन्तयत् ॥ १२८ ॥ यदि कश्चित् द्वितीयः स्यात्, सहायो वचनेऽपि हि । सुखादुत्तीर्यते तेन, सार्द्ध विपदं चाटवीम् ॥१२९॥ इति ध्यायति तत्रागादृर्शनीयाकृतिः क्षणात् । ब्राह्मणष्टक्कजातीयः, शबलस्थगिकां दधत् ॥१३०॥ पृष्टस्तेन
॥२१॥