________________
श्री
प्रव्रज्या
श्रीप्रद्युमीयवृत्ती
॥१९॥
वंशान्तः कर्करं तन्त्रीमध्यात् केशं च सोऽकृषत् । ततः समान्चय्यैषोऽवीणयच्च प्रवीणश्रीः ॥५६॥ देवदत्ता तदायत्ताचिभूत् सपरिषद ! करिणीव सदाऽऽरावस्वभावा मौनमाश्रयत् ॥ ५७॥ तद् वीक्ष्य स्तब्धकर्णी च, घूर्णमानी च त्रिस्मितौ । गणिकावैणिकां विश्वक्रम्मांध्यगिति दध्यतुः ॥५८॥ गणिका वैणिकं प्रीता, सम्पूज्य व्यसृजत् ततः । भोजनावसरेऽभ्यर्णेधाच्च निजचेटिकाम् ॥५९॥ हलेऽङ्गममाहून म ह्यावा शरीरास यथा ॥ ६० ॥ अनुमन्यस्व मामेव यथाऽभ्यगं करोम्यहम् । इत्युक्ते मूलदेवेन, सांच जानास्यदोऽपि किम् ? ॥ ६१ ॥ स प्राह नैतज्जानेऽहं जानानान्ते स्थितः पुनः । अथ चम्पकतैलेनाभ्यंगमभ्यंगमादधे ॥ ६१ ॥ सुखयन्नयमंगे तां छविमांसास्थिरोमसु । चक्रे हृतयदं वित्तं हृदन्तः सा त्वचिन्तयत् ॥ ६२ ॥ विजानाति शयोऽस्याहो करयोर्मृदुताऽप्यहो । छन्नवेषस्तदेकः स्थात्, कोऽपि सिद्धः पुमान् ध्रुवम् ॥ ६३ ॥ अवामनं गुणैरेनं मन्ये कपटवामनम् । ध्यात्वेति देवदत्ताऽस्य देवस्येवापतत् पदोः ॥ ६४ ॥ अवोच च महाभाग !, गुणैरसदृशैरिमैः । ज्ञातोऽस्त्युत्तममर्त्यस्त्वं प्रतिपन्ने च वत्सलः ॥ ६५ ॥ दाक्षिण्यावारपरश्च तदात्मानं प्रदर्शय । रूपे तवाहमुत्काऽस्मि, योगिनीव परात्मनि ॥ ६६ ॥ तन्निर्बन्धान्निजास्यस्थामाकृष्य गुटिकामथ । मूलरूपधरो मूलदेवो देवोपमोऽभवत् ॥ ६७॥ साक्षाद् वीक्ष्य कलावन्तं तं भास्वन्तं च तेजसा । दर्शवद्दर्शनीयं सा, प्राज्ञमान्यममन्यत ॥ ६८ ॥ तं यथाकामरूपं च कामरूपं च वीक्षितुम् । सहस्राक्षत्वमैच्छच्चापतच्च पदयोः पुनः ॥ ६९ ॥ महाप्रसाद इत्युक्त्वा, स्वयमभ्यज्य तं ततः । समं स्नात्वा च भुक्त्वा च दुकूले पर्यधापयत् ॥७०॥ अजल्पच्च विनैकं त्वां नापरेण नरेण मे । केनाप्यरञ्जि दूरज्यं, मानसं मानसंभृतम् ॥ ७१ ॥ तत् सत्यं दृश्यते केनैकेन साकं न संकथा ? | बिरलं मानुषं चित्तस्यामंदानन्दकृत् पुनः ॥७२॥ त्वयोपरोधशीलेन, तन् मदीयानुरोधतः । रम्ये हर्म्ये समागम्य, विश्रभ्यमिह सर्वदा ॥७३॥ मूलदेवोऽवदद् गुण्ये, गुणशे गुणरागिण ! विदेशे निर्द्धने चास्मादृशि स्नेहो हि न स्थिरः ॥ ७४ ॥ प्रायः कार्यवशादेव, स्नेहः सर्वस्य जायते । कार्य सर्व धनेन स्यान्तिर्धनेन न किंचन ॥ ७५ ॥ सोचे देशः परः स्वो वा, सत्पुंसां नैव कारणम् । न मुञ्चत्यम्बुधित्यक्तं, पाञ्चजन्यं हरिः करात् ॥७६॥ असारेऽर्थे च दक्षाणां, न रागः स्याद् गुणेषु तु । सद्भावः सज्जनानां हि, कोटिकोटिमुपैति यत् ॥७७॥ प्रार्थनां सर्वथाऽप्येनामनुमन्यस्व मे ततः । तन्मतेऽथ तयोर्जज्ञे, संयोगः स्नेहनिर्भरः ॥ ७८ ॥ देवदत्ताऽन्यदा रंगभूमौ नृत्त्वा नृपाग्रतः । पटहं | पटुभिः पातैर्मूलदेवस्त्ववादयत् ॥७९॥ पुष्टरंगवशात्तुष्टो, विचारघवलो नृपः । अदत्त देवदत्तायै, वर न्यस्तस्तयाऽथ सः ॥८०॥ मूलदेवः
॥१