________________
व्रज्या० वीप्रद्युयवृत्ती
१८॥
प्टांगवैद्यकवेदिनः ।।३०॥ ततस्तदीयविज्ञप्तिमङ्गमा जंगमां विदन् । धुनीहि मा समागत्य, गृहानस्या: पुनीहि च ॥३१॥ युक्तियुक्तं OF तयेत्युक्तं, कर्ण्यमाकर्ण्य वामनः । गुणैरवामनः प्राह, निरुत्साह इदाकृतौ ॥३२॥ गणिकासङ्गमाऽमानमानग्लानिविधायकः । न दलभता. मानचित्तवित्तस्य, मानसे मम रोचते ॥३३॥ वेश्या प्रियस्य कस्यापि, वश्या नो काश्यपीव अत् । तान् पुण्यधनसंयुक्तान्, संत्यज्य रमने परे: स्वप्न
३४|| भास्वदीश्वरलोकेशहृषीकेशप्रचेतसः । हित्वा पगन् कुचेलाऽपि, वेश्यानां धनदः प्रियः ॥३५॥ न कुलेन कुलीनानां, न कलाभिः 10 दृष्टान्त कलावताम् । न गुणगुणिनां वश्या, वेश्या वित्तेन केवलम् । ॥३६॥ सत्काव्यशुन्द्विकार, इव साधारणस्त्रियः । अर्थहीनं परित्यज्याश्रयते सार्थक पदं ॥३७|| तेनेत्युक्तेऽब्रवीत् कुब्जा, सत्यमब्जमुखदृशम् । रज्यते स्वामिनी नस्तु, कलावति कलावती ॥३८॥ सगुणन त्वयाऽऽकृष्ट, । तस्या निजमनोमृगम् । प्रत्यानेतुमहं प्रेषीत् श्लेषणीयापरं मनः ॥३९॥ देव ! त्वां देवगन्धर्वगर्वसर्वस्वतस्करम् । स्वामिनीचित्तचौरं च, ग्रहीष्यामि बलादपि ॥४०॥ तामित्युक्तवतीं तुष्ट, इवायमनपायधीः । आफाल्य सरलीचक्रे, सद्यो विद्याप्रयोगतः ॥४१॥ मा स्वमन्यादृशं । बीक्ष्य, विस्मयस्मयमन्दिरा । मेने जन्मान्तरं प्राप्तं, तद्विज्ञानसुवेधसः ॥४२॥ पूजाचिकीरिब न्यस्य, पदस्तस्य शिरोऽम्वुजम् । आनन्दात्रुजलैः स्नानं, कुर्वतीबाथ तं जगौ ॥ ४३॥ पूर्व वृद्धो बिधाता मां, कुब्जाङ्गां प्रकरोऽकरोत् । नवेन वेधसाऽहं तु, भवता सरलीकृता ॥४४॥ हन्ताऽहं तादृशी चक्रे, त्वयाऽभिनववेधसा । प्रत्येति स्वामिनी नैव, यथा में शपथैरपि ॥४५॥ भवन्तं प्रेषिताs NOM ऽह्वातुं, वजन्ती त्वां विनाऽधुना । रूपेणान्यादृशीवेश ! प्रवेशमपि नो लभे ॥४६॥ तद्विधायार्य ! किड्कर्या, दयामय ! दयां मयि । प्रसद्याथ समागत्य, मां प्रवेशय बेश्मनि ॥४७॥ निर्बन्धेन तयेत्युक्तो, न्यस्तबाहुः सुबाहुना । गृहीत्वा स गृहं नीतः, पुरोभूय प्रवेशितः ॥४८॥ तां वीक्ष्य विस्मिता देवदत्ता प्राह हलेऽसि का ?। साऽथ वामनवृत्तान्तमाख्यान्ती सर्वमाख्यत ॥४९॥ अगण्यपुण्यलावण्यं, वामनं वीक्ष्य तं मुदा । तच्चाकर्ण्य सकर्णा सा-ऽदापयच्चार विष्टरम् ॥५०॥ निविष्टो विष्टरे तस्मिन्नयं सुस्मितया तया । उक्तस्ता मधुरालापै छ ईयद्यैईयत्तहदं व्यधात् ॥५१॥ तदा वैणिक एकोऽत्रागत्य वीणामवादयत् । तुष्टा तुष्टाव तं देवदत्ता त्वं साधु साधु भोः ॥५२॥ मूलदेवो विदहो, जानात्युज्जयिनीजनः । अतीवपुण्यनैपुण्यः, सुन्दरासुन्दरांतरम् ॥५॥ देवदत्ताऽऽह किं झूणमत्र ? प्रोवाच वामतः । वंशे शुद्धे