SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ || अभूतां चंद्रगुप्तन्य, राज्यभागानुभावपि ॥६३॥ अन्यदा नंदगृहयेषु, देशोपद्रवकारिषु । चाणक्यांऽमार्गयच्चारग्राहमुग्रतरं नरम् ॥ ६४ ॥ गतः पुराद्बर्हिवीक्ष्य, नलदामं कुविन्दकम् । ज्वलनं ज्वलयन्तं तं हेतुं पप्रच्छ मोऽवदत् ॥ ६५ ॥ मत्कोटकेन दुष्टेन, दष्टो मम सुतस्ततः । वनित्वा तद्बिलं मूलात् मत्कोटान् विशसाम्यहम् ॥६६॥ श्रुत्वेत्ययं गतः स्थाने, तमाकार्य स कार्यवित् । चक्रेऽसामान्यसेनान्यमन्यायिव्ययवद्धधीः ॥६७॥ तेनोपचर्य भोज्याद्यैः सकुटुम्बा अपि क्रमात् । तस्करास्ते यविश्वासा, विशस्ता एव चक्रिरे ॥ ६८ ॥ कृत्वेत्यकंटक राज्ये, कोशार्थार्थ | महर्द्धिकान् । आह्वाय तैः समं मद्यपानमारब्धवानयम् ॥६९॥ जिज्ञासुस्तत्ताकूतं, स्वयं चामद्यपोऽप्ययम् । उत्थाय नटवन्नृत्यन्नित्यगायत् स मत्तवत् ||१०|| द्वे वस्त्रे धातुरक्ते मे, त्रिदण्डं स्वर्णकुण्डिका । वशे च नृप इत्यर्थे तद्वादयत डुम्बरीम् ॥ ७१ ॥ श्रुत्वेत्यसहमानोऽन्यः, स्वां प्रागप्रकटां श्रियम् । ऊर्ध्वकृत्य भुजं नृत्यन्, प्रकाशयितुमुद्यतः ॥ ७२ ॥ यतः क्रुद्धातुरोन्मत्तानुरक्त्यव्यसनश्रिताम् । म्रियमाणस्य च प्रायोऽभिप्रायो यात्यगोप्यताम् ॥ ७३ ॥ स जगौ च गजे मत्ते, द्विगत्यूतिसहस्रगे । लक्षं पदे पदेऽत्रार्थे तद्वादयत डुंबरीम् ॥७४॥ परः प्राहाशिलक्षेत्रे प्रजाते च तिलाढके। लक्षं तिले तिलेऽत्रार्थे, वाद्यतां मम डुम्बरीम् ॥ ७५ ॥ वक्तयन्योऽद्रिनदीपूरस्यैकाहनवनीततः । बध्नामि पालिमत्रार्थे, | तद्वादयत डुम्बरीम् ॥ ७६ ॥ परः प्राह यदेकाहर्जातबालाश्वबालकैः । छादयामि नभोऽत्रार्थे, वाद्यतां मम डुम्बरीम् ॥७७॥ प्रोचे परस्तु यन्मेऽस्ति रत्नभूतं द्वयं गृहे । एकः शालिर्भिन्नशालिशालिप्रसवशालितः ॥ ७८ ॥ परो गर्दभिकः शालिश्छिन्नश्छिन्नः प्ररोहति । अस्यार्थस्य समर्थत्वे, वाद्यतां मम हुंबरीम् ॥ ७९ ॥ ऊचेऽन्योऽस्म्यनृणो नित्यसुगन्धः प्रीतिमत्प्रियः । सहस्रश्श्वाविणन्त्र, बाद्यतां मम डुम्बरीम् ॥८०॥ तद् ज्ञात्वा द्रव्यमुचितं याचितं चणिसूनुना । मासं प्रत्येक स्त्रस्य, म्रक्षणं तुरगास्तथा ॥ ८१ ॥ अक्षय्यनिधिवत्किंच, कुशूलाः शालिभिर्भृताः । तन्मर्मवेदिना तेन, सर्वमित्थमुपाददे ॥ ८२॥ अन्यदा देवतादत्तावक्षौ चिन्तितपातिनौ । प्राप्यैकं पुरुषं विष्णुगुप्तो दक्षमशिक्षयत् ॥ ८३॥ स जगौ यो विजेता मे, स्थालं गृहगातु सोऽखिलम् । जये तु मम दीनार, एको देय इति स्फुटम् ॥ ८४ ॥ पणेन तेन दीव्यन्तस्तेनान्ये जिग्यिरे 'जनाः । स तु तैर्नेत्थमप्यर्थ', चाणक्योऽमेलयद्बहुम् ॥८५॥ अपि नाम स जीयेत, कदाचिदपरैर्नरैः । मानुष्यकात् परिभ्रष्टो, मानुष्यं लभते न तु ॥८६॥ उक्तः पाशकदृष्टांतः ॥ अधुना धान्यदृष्टान्तः, -धान्यानि यवगोधूमव्रीहिषष्ठिकशालयः । कोद्रवाणुककंगुन्यो, मुद्गमाषौ वरालकः ॥ १॥ तिलातसीक्षुनिष्पावा, 5:00 ॥१५॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy