________________
NE
तुष्टस्तदुक्तिविज्ञानाद्गां गृहाणेति तद्वचः । पृथिव्यर्थे विचिन्त्यप, शकुनग्रन्थिमादधे ॥३८॥ कस्यामिति तत्पृष्टे, परिव्राजकपुत्रकम् ।
त्रकम् । मनुज Joतमाख्यबालका: सोऽहमाह तं च चणिप्रसूः ।।३९।। ऊचे च चन्द्रगुप्तं त्वां, सत्यभूपं करोम्यहम् । स तेन मह यातश्च, चाणक्योऽमेलयचमूम् दुर्लभताय
४०॥ अरुधत् पाटलीपुत्र, नन्देनाभाजि सोऽचमूः । सचन्द्रगुप्तश्चाणक्यः, प्राणेशत् त्राणवर्जितः ।।४१|| पृष्टे च मादिन्यायाति, मौर्य न्यस्य ११ पाशक | सरस्ययम् । कुर्वन् रजकतां पृष्टस्तेनाख्यत्तं सरःस्थितम् ॥४२।। तत्रस्थं वीक्ष्य तं सादी, चाणक्यायाश्वमार्णयत् । मुक्त्वाऽसि कञ्चुकं मुञ्चन्, दप्टान्तः
चाणक्येनासिना हतः ॥४३॥ तमाहूयाश्वमारोह्य, स्बेनाह्यानशच्च सः । तमपृच्छत् किमध्यायि, यदा त्वं कथितो मया ? ॥४४॥ स प्राह र या भविता भव्यमित्थं बेत्त्यार्य एव तत् । चाणक्योऽचिन्तयद्योग्योऽयं न विप्रतिपत्स्यते ॥४५॥ क्षुधितं चन्द्रगुप्तं च, मुक्त्वाऽन्नार्थोऽविशत्पुरे ।
तत्कालभुक्तदध्यन्नद्विजोदरमदारयत् ॥४६।। करम्बं स गृहीत्वाऽस्य, जठरापिठरादिव । अभाजयदिम बालं, कालज्ञश्चणिनन्दनः ॥४७॥
निशायां स मतो ग्रामे, भिक्षार्थी स्थविरागृहे । पर्यवेषि तयाऽर्भाणां, तदा चोष्णा विलेपिका !॥४८॥ एकश्च क्षिप्तहरतोऽन्तः, प्लुष्टः Vil क्रोशंस्तयोदितः । मूढ ! त्वमपि चाणक्यतुल्यो भोक्तुं न वेत्सि रे ॥४९॥ तत्पृष्टा साऽवदरपूर्व, सर्वगृह्येत पार्श्वतः । ततिचार्य गतो बालं,
भिक्षया तमभाजयत् ॥५०॥ गत्वाऽथ हिमवत्याह, मैत्र्या पर्वतकं नृपम् । राज्य विभज्य सौन्दर्यरीत्या नन्दस्य गृह्यताम् ॥५१॥ तन्मतः पार्श्वतो देश, क्रमेणादातुमुद्यतः । पुर्येकस्यां त्वभंगायां, त्रिदण्डीभूय सोऽविशत् ॥५२॥ मत्वा तदिन्द्रकन्यानां, माहात्म्यं लोकनोदितः ।
मायया ताः समुत्थाप्य, तत्पुरं स्वकरेऽकरोत् ॥५३॥ इति देशं वशीकृत्य, पुष्टोऽर्थेन बलेन च । सोऽरौत्सीत् पाटलीपुत्रं, सर्वतः सह पार्वतैः D॥५४|| नन्दो मन्दाक्षमन्दोऽथ, धर्मद्वारं विमार्गयन् । गच्छेकेन रथेनार्थ, गृहीत्वेत्युदितस्ततः ॥५५॥ भार्याद्वयं च कन्यां चार्थ व्यावृत्य रथेन
सः। निर्यान्मौर्य प्रपश्यंतीमपश्यत्तनुजां भृशम् ॥५६॥ नन्देन सा व्रजेत्युक्त्ता, यहारोहद्रथे तदा । भग्ना नवारकाश्चन्द्रगुप्तश्चैतां न्यवारयत् ॥५७॥ त्वद्वंश्या भाविनो भूपा, नवेति चणिसूनुना । प्रोक्तेऽन्यरथमारोप्य, तां शस्ये न्यविशत् पुरे ॥५८॥ अन्त: पर्वतकेऽप्येते, द्विभागं सर्वमाहितम् । तत्र नन्दप्रयुक्ताऽऽसीत्, कन्या च विषवासिता ।।५९॥ तदिच्छु: पर्वतस्तस्याः, पाणिग्रहमकार्यत । भ्रमन्नभ्यग्नि मूळवांश्चन्द्रगुप्तमुवाच तत् ।।६० वयस्य ! म्रियते सोऽथ, तत्प्रतीकारकारकः । विकटां भृकुटि कृत्वा, चाणक्येन निषेधितः ॥६१॥ यदुक्तं ४ Fol तुल्यसामर्थ्य, मर्मजं व्यवसायिनम् । अर्द्धराज्यहरं भृत्वं, यो न हन्यात् स हन्यते ॥६२॥ चन्द्रगुप्तः स्थितो तूष्णी, संस्थितः पर्वतस्ततः । o n