________________
॥११॥ सा निःश्वासवती पत्युर्निबन्धेनातिपृच्छतः । आख्यदरिद्रतोद्भूतमपमानं पितुर्गहे ॥१२॥ स दध्यो धिगिदं नै:म्व्यं, स्वकुले ऽप्यपमानदम् । मानदं धनबत्त्वं स्यादपवादविवर्जितम् ॥१३॥ धनिना हि जनो गर्जत्यसत्येनापि मर्वदा । सत्येनापि च निःम्वन, मज्जलज्जः प्रजायते ॥१४॥ किंच कार्य बिना स्नेहमर्थहीने च गौरवम् । प्रतिपन्ने च निर्वाहं, बिरलाः केऽपि कुर्वते ॥१५॥ ध्यात्देति लिप्सया माऽगात्, पाटलीपुत्रपत्तने । प्रागन्यस्तेष्वासनेष्वाद्यासने च विनिविष्टवान् ॥१६॥ आद्यमाचक्रम तेन, चाणक्येन यदासनम् । तदलंकुरते नन्द, एवं भद्रासनं यतः ॥१७॥ नन्देन सममायातः, सिद्धपुत्रोऽबदत्तदा | वाडवो निषसादेष, च्छायामाक्रम्य भूभुजः ।।१८। उक्ता नृपस्य दास्याऽथ, चाणक्यः शमवाक्यतः । द्वितीयस्मिमियोपारिमन्नार में द्विजसत्तम ! ॥१९॥ इत्युक्तः स तया प्राह, स्थास्यत्यत्र कमण्डलुः । न्यास्थच्च तत्र तत्पूर्व, नात्यजच्च नृपासनम् ॥२०॥ इत्थमुत्थाप्यमानोऽयमासनान्यपराण्यपि । दण्डयज्ञोपवीताक्षमालाद्यैरयुधद् बुधः ॥२१॥ दासी प्राह त्यजत्येष, न शठः पीठमादिमम् । गुणाद्धि दुष्टबुद्धिश्च, विष्टराण्यपराण्यपि ॥२२।। तत् किं वातकिनैतेत, धृष्टेनेति भुजिष्यया । विप्र उत्थापयांचक्रे, क्रमघातेन विष्टरात् ॥२३।। तत्क्षणं चणिनः सूनुर्दारुणः प्रतिघारण: । प्रतिज्ञामकरोदित्थं, सर्वलोकस्य पश्यतः ॥२४॥ कोशभृत्यमहामूलं, मित्रपुत्रशिफाकुलम् । नन्दमुन्मूलीयष्यामि, ययुर्दृढ इव द्रुमम् ।।२५|| बिम्बान्तरितमात्मानं, स जानन् भावि नृपम् । | निर्गत्य मार्गयामास, नरं राज्यधरं चिरम् ॥२६॥ अन्यदा यत्र नन्दस्य, मयूरपरिपोषकः । तद्ग्रामे गतवानेष, परिव्राजकवेषभृत् ॥२७॥6) तन्महत्तरपुत्र्याश्च, तत्र गर्भानुभावतः । दोहदश्चन्द्रपानेऽस्ति, भिक्षार्थी प्राविशत् स तु ॥२८॥ तत्पृष्टः प्रोचिवान् पुत्रं, यदि में दत्त निश्चितम् । तदहं दोहदं पुत्र्या, दोहदं पूरयाम्यहो ॥२९॥ पुत्री च पुत्रीगर्भश्चानेशतां मेति चिंतयन् । उक्तं चाणक्यवाक्यं तदमन्यत महत्तरः ॥३०॥ अथ राकारजन्यन्तर्विवरान्तरसंयुतम् । चाणक्यो विदधे बुद्धिप्रकटः पटमण्डपम् ॥३१॥ तस्याः सितायुतक्षीरपूरितं रौप्यभाजनम् । सबिम्बितेन्दुबिम्बं सोऽदीदृशत् तन्मृगीदृशः ॥३२॥ उक्ता पिबेन्दुबिम्ब तत्, साऽपिबच्च यथा यथा । तथा तथा नरः पूर्व, संकेताद्विवरं पिधात् ॥३३॥ चाणक्येऽथ गते पूर्णश्रद्धा सुतमसूत सा । स दत्तचन्द्रगुप्ताख्यः, क्रमशस्तत्र बर्द्धत ॥३४॥ चाणक्यो धातुवादेन, ४ कृत्वा किंचन कांचनम् । तत्रैतो राजरीत्या तं, रममाणमलोकयत् ॥३५॥ देशं कस्यापि कस्यापि, ग्रामं क्षेत्रं च कस्यचित् । ददतं तं द्विजः प्रेक्ष्य, प्रोचे किंचिद्दस्व मे ॥३६॥ गां गृहाणेति बालाक्ते, स प्रोचे कोऽपि हन्ति माम् । बालः प्रोवाच भूरेषा, वीरभोज्या गृहाण तत् ॥३७॥