________________
श्री
प्रव्रज्या०
श्रीप्रधुमीयवृत्ती
।। १८१ ॥
प्रज्ञप्तः प्रतिपादितः ते हि तं जिनधर्ममवदन् वदंति वदिष्यंति च नरसुरसुखानि राज्यसाम्राज्यदेवत्वदेवाधिपतित्वसुखानि त्वानुषंगिकाणी प्रासंगिकानि, जितैरेवोक्तानि दृष्टांतमाह विभक्तिलोपात् कृपी पलालमिव कृषिर्हि धान्यनिमित्तं क्रियते, पलालं तृणं तु प्रासंगिकं स्यादिति गाथार्थ:, अत्रार्थे पूर्व बाहुमुनिभवं विहितचत्तुदेशपूर्वलक्षवाह्याभ्यंतरतपश्चरण श्रीभरतचक्रदृष्टांतः ॥१५॥ एतदेव व्यतिरेकेण दर्शयति यतः श्रीभरत चक्रिणाऽष्टापदे यथावर्णप्रमाणरत्नमयचतुर्विंशतिजिनप्रतिमास्थापन पुरस्सरं दुरंतदुरिताव सादः सिंहनिषद्याभिधः, प्रासादः कारितः, तत्र यथोक्तबिंबानि च स्थापितानि, प्राग्भवं साधुभावे च माधूनां वैयावृत्त्यादिपूजा कृता, दुर्धरं व्रतं धृतं परं येनैतेषां चतुर्णा मध्ये न किमपि कृतं स्यात्तेन मानुष्यजन्म परिहारितं, तस्य मनुष्यजन्म व्यर्थं गतमित्यर्थः ॥ १६ ॥ अथान्वयव्यतिरे काभ्यां पंचभिर्गाथाभिः प्रव्रज्यां श्लाघते -
मुणिबूढो सीलभरो विसयपभत्ता तरंति नो वोढुं । करिणो पल्लाणं किं उबवोढुं रासहो तरइ ? ॥ १७ ॥ अन्नह सा पव्वज्जा वज्जिअसावज्जजोगकरणिज्जा । अन्नह पमायबहुलो जीवो बिनडेइ अप्पाणं ॥ १८ ॥ अन्न सो पडिमत्थो अन्नह लोआण चिट्ठियं इण्टिं । अन्निच्चिय दंता गयवराण चावंति अन्नेहिं ॥ १९ ॥ वंसिअ मुहेण छिज्जइ कढिज्जइ दुक्करं कुडंगाउ । पव्वज्जा सुहगहिआ सीलभरो दुब्बहो होइ ॥ २० ॥ बूति नाम भारा ते चिअ बृहति वीसमंतेहि । सीलभरो वोढव्वो जावज्जीवं अवसामो ॥२१॥
मन्यते साधुसामाचारीमिति मुनयः तैर्व्यूढः शीलभरः अष्टादशशीलांगसहस्त्रभारः पूर्वप्रणीतः, अत एव विषयप्रसक्ताः शब्दादिषु | प्रकर्षेण संसर्गवंतो जनास्तं प्रव्रज्याभार बोढुं न शक्नुवंति 'शकेश्वयतरतीरपारा:' इति प्राकृतत्वात्, व्यतिरेकदृष्टांतमाह- किं करिणः पर्याणमुढोढुं रासभः शक्नोति ? नेत्यर्थः तथा मुक्तिपुरपरिषरूपरागादिभुजार्गलाभंगगज प्राय महामुनिव्यूढं शीलपर्याणं ससभप्रायमुन्याभासैः कथं वोढुं शक्यते ? इति भावः । अत्रार्थे श्रीवज्रस्वामिदृष्टांतः ॥ १७॥ अथ तदेव द्वितीयगाथयाऽऽह - अन्यथा वर्जितसावद्ययोग:- पापव्यापारपरिहारिभिरेव सा प्रव्रज्या क्रियते नान्येरिति भाव:, अन्यथा प्रमादबहुल: ' प्रमादेन विपयविकथादिरूपेण
॥ १८१ ॥