________________
श्री
प्रव्रज्या०
श्रीप्रधुमीयवृत्ती
॥ १७२॥
सम्यक्त्वनिश्वयः ॥ १७ ॥ तदेहि सुगुरोः पार्श्वे जिधुक्षुर्व्रतमस्म्यहम् । त्वमाश्रयस्व सम्यक्त्वं चारित्रमहमाश्रये ||१८|| मया गत्वाऽथ सम्यक्त्वमेवंरूपमुपाददे । अर्हन् देवो गुदुः साधुर्धर्म्मस्तदुदितस्तथा ॥ १९ ॥ तत्प्रपाल्यानशन्यन्ते, निदानं व व्यधामहम् । उच्चैर्भूया समित्यायं ! मृत्त्वाऽभवमिभो बने ॥२०॥ छद्मस्थजिनलिंगं प्राग्गुरुणेति निवेदितम् । भवोऽयं दूषितोऽप्युच्चैर्दर्शनादस्य भूषितः ॥२१॥ सरसः सरसैरस्य, सुरसैः पूजयाम्यमुम् । ध्यात्वेत्ययं व्यधाद्द्भावपुरः सिन्धुरस्तथा ॥२२॥ प्रपात्य प्राच्यसम्यक्त्व मन्ते ऽनशनमागी । सुविशुद्धान्तरप्रौढव्यन्तरत्वमवाप च ॥ २३॥ इदमद्भुतमुद्भूतं चरितं करकण्डुना । श्रुत्वाऽऽयातेन नो दृष्टः, स्वामिंस्त्वं तदशांचयत् ॥२४॥ एकोऽपि हस्तिनस्तस्य, हस्तः, शस्तो जिनार्चया । उभावपि तमोग्रस्तौ, हरतौ मे तदभावतः ॥ २५॥ विश्वाघातकरो विश्वभूषणं चिन्तितप्रदः । स्वामी जगाम ही रत्नमजाग्रत इवाग्रतः ॥ २६ ॥ स्वामिनोऽनेकपस्यास्य प्रसादो यदनेकपे । तद्युक्तं यत्तु मामेकं न पाति स्म तदद्भुतम् ॥२७॥ इति स्वं शोचतस्तस्य, धरणेन्द्रप्रसादतः । नवहस्तप्रमाणाऽभूत्, पुरतः प्रतिमा प्रभोः ॥ २८ ॥ ततो जय जयेत्युच्चैः स्तुवंस्तामनमन् नृपः ॥ चैत्यं च कारयांचक्रे तत्र तस्याः प्रमाणतः ॥ २९ ॥ स नित्यमर्चामर्चायास्त्रिसंध्यं कुरुते त्रिभिः । प्रकारैः पुष्पनैवेद्यैस्त्रिकालप्रेक्षणक्षणैः ||३०|| कलिकुण्डाभिधं तीर्थ, प्रसिद्धिं नयति स्म सः । तत्र च व्यन्तरो हस्ती, स्थेरोऽधिष्ठातृभावभाक् ॥ ३१॥ तत्र भक्तिकरे लोके, | प्रत्ययान् विविधान् व्यधात् । नवयन्त्र्यादियन्त्राणि, मंत्राण्यपि च नैकशः ॥ ३२ ॥ षड्धर्म्मसिद्धिदानाय स चक्रे व्यन्तरस्तथा । ग्रामवासी जनो ग्रामाभिलाषेनोच्यते यथा ॥ ३३॥ कलिकुण्डनिवासित्वात् कलिकुण्डो जिनस्तथा । तीर्थ श्रीकलिकुण्डाख्यं, करकण्डुप्रकाशितम् ॥३४॥ मजव्यन्तरसान्निध्याज्जायते सर्वसिद्धिदम् । इत्यदः कलिकुण्डस्य, चरितं गदितं विभोः ||३५||
कुक्कुटेश्वरसम्बन्धोऽधुना प्रोच्यते-पार्श्वप्रभुः पुरा कायोत्सर्गे राजपुरे स्थितः । तत्रास्ति हस्तिस्वी (रत्नी) येश्वरक्ष्मापतिरीश्वरः ॥ १ ॥ वाहकेल्यां गतस्तस्य, बन्दी भाणोऽर्जुनाभिधः । प्रभुं प्रेक्ष्य स्तुतिं चक्रे, सद्भूतगुणकीर्त्तनैः ॥ २॥ देवायं देवदेवोऽश्वसेनस्य नृपतेः सुतः । च्यवनोत्पत्तिदीक्षाभिः सूतत्रिजगतीः ||३|| श्रुत्वेति नागादुत्तीणों, नत्वाऽथालोकयन् विभुम् । मूच्छत्थितो नृपः पृष्टो मन्त्रिणा प्राग्भवान जगी ॥४॥ चारुदत्तः पुरा भूत्वाऽथ वसन्तपुरेऽभवम् | पुरोहितसुतो नास्ता, दत्तः कुष्टाद्विरोगवान् ॥५॥ गुहायां निपतनं दृष्ट विद्याऽन्यमवगारिरसायनम् ॥ वा चि
| कलिकृण्डपार्थः