________________
नी
या०
घु
वृत्तौ
- १॥
सोऽवदत् । सूयुबने कारणे प्रातः स्थेयगुचत्वेति चागमत् ॥ ११ ॥ रलकोटीत्रयं कोशात् प्रातः कृष्ट्वा चनुस विमुच्या घोषयत्नान्यागत्यादत्त हे जनाः ! ॥ १२ ॥ तच्चाकर्ण्याययुर्लोकास्तानूचेऽभयमंत्रिराट् । जलाग्निस्त्रीवर्जको यस्तस्य स्यादत्तमचयः |||१३|| ऊचुर्जनास्त्रयं त्युक्तमिदं कः स्यात् प्रभुः ? प्रभो । विमुक्ते च त्रयेऽमुत्र, को यत्नां रत्नसंग्रहे ? || १८ || मंत्र्यूचे तत्त्रयत्यागाद्रत्नकोटीत्रयत्यजः । काष्ठभारिकसाधोस्तदुपहासं विधत्त किम् ? ॥ १५ ॥ मन्त्री न्यान्मुनिं रत्नत्रयकोटीं निनाय ताम् । नैच्छत् तां तत्त्रयत्यागी, धर्मे जातस्त्वसौ स्थिरः ॥ १६ ॥ समारुह्य मुनिर्निष्ठाकाष्ठायां काष्ठभारिकः । जगाम सदां धाम, क्रमाल्लब्धं परं पदम् ॥१७॥
किंच केचिज्जिनेन्द्रस्य, दर्शनात्लब्धदर्शनाः । स्युस्तदुक्तस्ततो धर्म्मः, सार एको नृजन्मनि ॥ १ ॥ करिणः कलिकुण्डोऽभूत्कुक्कुटात् कुक्कुटेश्वरः । कथ्यतेऽतस्तयोराख्या, सावधानैर्निशम्यताम् ॥ २॥ उत्तमांगसमांगाख्यदेशेऽस्ति क्षितियोषितः । चम्पा चम्पकमालेव, पुरी | पौरालिमालिता || ३ || राति द्विकरकण्डु, करकण्डुर्महीपतिः । लोको नालोकते यत्रातंकमातंकहारिणि ॥४॥ तस्याः पुरो नदूरे चास्त्यटवी स्फुटवीतभृत् । नाम्ना कादम्बरी कादम्बरी श्वापदसम्मदे ||५|| तस्यां बलिरिवास्त्युच्चैः कलिर्नाम्ना महीधरः । | सफलगुफलस्तोमैरर्थिसार्थ कृतार्थयन् ॥ ६ ॥ उपत्यकायां तस्यास्ति, स्वामृतस्वादुतामदात् । अधः कृतसुधाकुण्डं, कुण्डं नाम सरोवरम् ॥७॥ तत्रास्ते हस्तिनीयूथनाथः प्रथितविक्रमः । नाम्ना महीधरो हस्ती, महीधर इव स्थिरः ॥ ८ ॥ छद्मस्थोऽपि हि निश्छद्माऽन्यदा पार्श्वजिनेश्वरः । कलिकुण्डसदेशस्थप्रदेशे व्यहरद्विभुः || ९ || यत्रास्तमितवासी स, कायोत्सर्गेण तस्थिवान् । आत्मनः संज्ञया जन्म, जानुदघ्नमिवादिशन् ॥१०॥ सोऽथ यूथाधिपस्तत्र, प्रभुं प्रेक्ष्य तथा स्थितम् । जातजातिस्मृतिश्चित्तेऽचिन्तयत् प्राग्भवं निजम् ॥ ११॥ विदेहेषु पुरे हेमंधर इत्याह्वयो] ऽभवम् । लोकस्य केलिपात्रत्वाद्वामनोऽहं मनोहरः || १२|| तथाभूतं च मां भूताभिभूतमिव बालकाः । विभाषन्ते युवानश्व, विटाश्वोपहसन्त्यलम् ||१३|| इत्थं च हस्यमानस्य त्रास्यमानस्य सर्वतः । मूर्खस्य मे मुमूर्षाऽभूदतिवैराग्यतस्ततः ||१४|| शाखिनो नम्रशाखस्य शाखायां स्वं विबन्धयन् । श्राद्धेन सुप्रतिष्ठेन, दृष्टः पृष्टश्व कारणम् ॥ १५ ॥ मया यथातथैतस्य कथिते स जगाद माम् । वामनः कर्म्मणा त्वं तद्, उच्छेत्तुं वामनं कुरु ॥ १६ ॥ कथं न्विति मया प्रोक्ते स प्राह न हि साहसम् । कर्म्मवामनतोपायः, किन्तु
sode
॥१७१॥