________________
श्री
प्रव्रज्या०
श्रीप्रद्यु - मीयवृत्ती
॥१६४॥
कूटसाक्षित्वं मा भूमे कर्मसाक्षिणः । ध्यात्वेतीव जगद्दीपो द्वीपान्तरमुपागमत् ॥ ९१ ॥ तमसि प्रसृते दूरात्तमसिव्यग्रहस्तकम् । अग्रस्थितं तदादेशात्, कुमारोऽप्यनुजग्मिवान् ॥९२॥ स तस्य पश्यतः खात्रं, श्रीवत्साकृति दत्तवान् । आचकप ध पेटायं वस्तु सोवगृहादिव ॥१३॥ कुमारं तत्र मुक्त्वैष, प्राग्जल्पितदरिद्रनृन् । आनीय न्यस्य पेटाद्यं तच्छीर्णे शेषमाददे ॥ ९४॥ स्वेन भूपभुवा वापि सर्वऽपि निरगुः पुरात् । । दध्यों कुमारो हन्म्येनं, छलघातस्तु नोचितः ॥ ९५ ॥ पश्यामि च कृते कस्य, मुष्णाति ? मुषितं क्रियत् ? क्व चास्य भवनं ध्यायन्नित्ययं दस्युमन्वगात् ॥ ९६ ॥ इति सर्वान् पुरोद्यानमागतान् दस्युरब्रवीत् । विश्रम्यते कियदपि रजनी महती यतः ॥९७॥ तस्य प्रोक्ते कुमारणानुमते तत्र तौ स्थितौ । वाहीकास्तु परे सुप्ताः सर्वे विश्वस्तमानसाः ॥९८॥ तावुभावपि साशंकौ, द्वयोर्वृक्षस्य पक्षयोः । अलीकनिद्रया सुप्तौ प्रजिहीर्षु परस्परम् ॥ ९९ ॥ कुमारस्तु करें कृत्वा करवालं परे तरौ । विमुच्य स्रस्तरं तस्थावप्रमत्तो मुनीन्द्रवत् ॥१००॥ दस्युः परान्निहत्याथ, कुमारं यावदीक्षते । तावदेत्य कुमारेण स प्रोचे कृष्टरिष्टिना ॥ १०१ ॥ छलघातिन्नरे ! पाप ! पुरसर्वस्वतस्कर: 1 न भवस्यधुनेत्युक्त्वा, कृत्तौ तच्चरणी क्षणात् ॥१०२॥ कुजंगयुग सोऽथ कुत्तन व द्रुमः । पृथिव्यां पतितः प्राह कुमारं स्फारविक्रमम् ॥१०३॥ अहं भुजंगमो नाम, प्रख्यातः परिमोषिषु । गृहं मम श्मशानेऽस्ति, स्वसा वीरमतीति च ॥ १०४॥ न्यग्रोधमूले गत्वा त्वं, व्याहरेस्तां यथा शनैः । द्वारमुद्घाटयत्याशु सा यद्यापि कुमारिका ॥ १०५ ॥ तस्याः करं गृहीत्वा त्वं सर्वस्वं मे करे कुटु । पश्चात्तत्र सुखं तिष्ठेर्गच्छेव नगरे क्वचित् ॥ १०६ ॥ तेनेत्युक्तस्तमाश्वस्य, खड्गमादाय तस्य च । गतस्तत्र कृते शब्दे, सा द्वारमुदघाटत् ॥ १०७॥ दध्यौ कुमारस्तां दीक्ष्य, बालाऽसौ स्मरसेवधिः । सापि पप्रच्छ कोऽसि त्वं ? किमर्थमिह चागतः ? ॥१०८॥ तेनाथ कथिते कृत्वा, दूनाऽऽप्याकारसंवृतिम् । निवेश्य चासने प्राह, सर्वस्वं जीवितं च ते ॥१०९॥ अत्र वासगृहे तल्पे, त्वं विश्राम्य सुलोचन ! | अहं तब कृते गत्वाऽऽनयामि तु विलेपनम् ॥ ११०॥ उक्त्वेति निर्गतेयं द्राक्, तस्यां दध्यौ नृपात्मजः । नीतेर्मूलमविश्वासो विशेषेणाबलाजने ॥ १११ ॥ यल्लोभोऽलीकता मोढ्यमशौचं साहसं छलम्। निस्तृशत्वं च नारीणां सप्त दोषाः स्वभावजाः ॥ ११२ ॥ गुणप्रेमप्रजामानवपुर्द्रविणयोवनैः । दुर्ग्रहं महिलाचेतः, कथंचन निगृह्यते | ॥११३॥ कामार्त्तः कामिनीनां स्त्रं, यो ह्यर्पयति पूरुषः । पतत्ययमसंदेहं दुस्तरे दुःखसागरे ॥ ११४ ॥ ध्यात्वेति शय्यामृत्सृज्य यावत्तस्थौ स दुस्तः । तावत्तत्र तथा मुक्ता, पपात सहसा शिला ॥ ११५ ॥ सोवाच सोदर हत्या, मदीयं क्व नु यास्यसि ? । श्रुत्वेति धृत्वा केशेषु, तामूचे
८ माहत चन्द अगडदनः
॥१६४॥