SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 咖 प्रव्रज्या " श्री प्रद्युमीयवृती १६३॥ कुलादिकम् ॥६॥ तुष्टी नृप प्रतीक्ष प्रत्याकारयतः । कुमारमयगालानं यख नागं दागत् ॥ ६५५ || पंचांग प्रणामन, प्रणाम, दुर्महाभुज। परिरभ्य दृढं दोर्भ्यामास न निवेशितः ॥ ६६ ॥ तं च ताम्बूलदानाद्यैः परिपूज्य नरश्वः । निध्यायन्नेनमध्यायदूत्तमः पुरुष यम् ॥६७॥ धम्र्म्मो मूलं सुखाता यो व्यवसायः श्रियां पुनः । दणों मूलं विनाशानां गुणानां विनयः पुनः ॥६८॥ चित्रं यथा मयूरपु, यथा हंसपु सद्गतिः । यथा गन्धश्च पद्येषु कुलेषु विनयस्तथा ॥ ६९ ॥ ध्यात्वेति परितुष्टेन, कुशलं च शरीर । कलासु कौशलं चापि तस्य पृष्टं महीभुजा || ७० ॥ नृपं यावन्न लज्जात्मा स किंचिदपि जल्पति । तावदाख्यदुपाध्यायः, सर्वत्र निपुणां यम् ॥ ७१ ॥ परं सत्स्वपि लज्जत, | स्वगुणेषु मनीषिणः । इतरास्तु न मांत्यङ्गेऽलीकयाऽपि प्रशंसया || ७२ ॥ इत्थं कुमावृत्तेन, मुदितं मेदिनीपतौ । समागत्य नमश्चकुः, पौराः प्राभृतसम्भृताः ॥७३॥ मुदा तद्रुपदावस्तु, कुमारायार्पयन्नृपः । पुनर्नत्या च ते राज्ञे, विज्ञा व्यज्ञपयन्निति ||७४ || अलीकामलकामृद्ध्या, कुर्वती देवपूस्तव । दरिद्रमन्दिरातुल्या, विदधे परिमोषिणा ॥७५॥ क्षितिक्षिता तलारक्षं, प्रोचेऽदस्त्वयि सत्यपि । मुष्यते नगरं सर्व, परितः परिभोषिभिः ॥७६॥ दिवसा दे !, बहुमान् । तस्करं वीक्षमाणस्य, न स क्वापि तु वीक्ष्यते ॥७७॥ कुमरेणाथ विज्ञप्तो, नृपो ममादिश प्रभो !! यथैकागारिकं सद्यो, लभेऽहं सुलभेतरम् ॥७८॥ सप्तदिन्याऽप्यलब्धेऽस्मिन् सप्तार्च्चिषि विशाम्यहम् । राज्ञाऽथ विदधे आज्ञा, सत्त्ववान् साधयेहितम् ॥ ७९ ॥ नत्वा नरपतिं मद्यद्यूतवेश्यासुदुःसहः । मठकांदविकावासोद्यानदेवकुलादिषु ॥ ८० ॥ एकागारिकमेको ऽयं वीक्षमाणो दिवानिशम् । बभ्राम षट् दिनाश्चेत्थं गतास्तस्य निरर्थकाः ॥८१॥ सप्तमेऽथ दिने दध्यौ, तमादाय मृगेक्षणाम् । यामि देशान्तरं किन्तु ?, यद्वा नैतद्धि सङ्गतम् ॥८२॥ निर्वाह: प्रतिपन्ने हि, परमं पुरुषव्रतम् । तत्र लुते ह्ययं नारी, तन्नारीं कामये कथम् ! ॥ ८३ ॥ प्रतिपन्स्य निर्वाहं सर्वथा विदधामि तत् । ध्यात्वेति निश्चितोऽगच्छदपराण्हे पुराद्बहिः ॥ ८४ ॥ अबालस्य रसालस्य, छायायां | यावदस्ति सः । परिव्राट् तावदायातस्तत्रैकस्तस्य चाग्रतः ॥ ८५ ॥ स तं निरीक्ष्यं रक्ताक्षं रौद्रं कर्कशकुन्तलम् । दीर्घजङ्घ करिकराकारं चायं व्यचिन्तयत् ॥ ८६ ॥ शरीरलक्षणैरेतैरमुं मन्ये मलिम्लुचम् । पटुस्तु कपटे वेषं परिव्राजामयं दधे ॥२८७॥ इति ध्यायन्यं तेन सम्बभाषे कुतो भवान् ? । केन कार्येण वा चिन्ताचान्तस्वान्त इवेक्ष्यसे ? ॥८८॥ ईषन्नत्वा कुमारेण, भावज्ञेन स भाषितः । दारिद्र्यवेिद्रुतः शून्यचित्तः पुर्या भ्रमाम्यहम् ॥८९॥ परः प्राह छितद्यद्य, दारिद्र्यं तव पुत्रक ! । कुमारः प्रोचिवानेवं, स्तात्त्वत्पादप्रसादतः ॥ ९० ॥ अथैतत् 268 ॥ १६३॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy