________________
॥९॥
लतान्तरं तिरोधाय गतेष्वेषु च निःसृतः ॥ ७१ ॥ ग्रामे ग्रामेशतः शुद्धिं ज्ञात्वा त्वामागतः प्रभो ! दृष्टवा त्वां दृष्टवाश्चन्द्रं कैरव इव | पार्वणम् ॥ ७३ ॥ ब्रह्मदत्तोऽवदत् क्लीवैरिव स्थेयं कियच्चिरम् ? | बिना पौरूषमस्माभिर्वसन्तोऽथ तदाऽऽगमत् ॥ ७४ ॥ तदा च राज्ञो मत्तेभः, स्तम्भमुन्मील्य निर्ययौ । कन्यां स्वलद्गतिं कांचित् कराग्रेणाग्रहीच्च सः ॥ ७५ ॥ हाहारवं कुमारश्च श्रुत्वाऽभीस्तं प्रधावितः 1 तां | विमोच्य वशीकृत्य, नागं स्तम्भेऽनयत् क्षणात् ॥ ७६ ॥ राजाऽपृच्छत्तदाकारविक्रमाचारविस्मितः । कोऽयं कृतस्त्यस्तं चाख्याद्रनवत्याः पितृव्यकः ॥ ७७ ॥ राज्ञा कन्यास्ततो दत्ता, ब्रह्मदत्तः प्रतीष्टवान् । परिणीय च तास्ताभिः समं रेमे चिरं सुखम् ॥७८॥ अन्यदैत्य जरत्येका, तं प्रोचे भ्रामितांचला । अस्ति वैश्रवणेभ्यस्य, श्यामेत्याख्या सुता त्वया ॥ ७९ ॥ पीलोः करग्रहात् त्राता, सेच्छति त्वत्करग्रहम् । | एतावद्रूपसद्रूपजितकामावकामतः ॥८०॥ तयेत्युक्तः कुमारस्तं, परिणिन्ये शुभे दिने । सुबुद्धिमन्त्रिणः पुत्री नन्दाख्यां मन्त्रिभूः पुनः ॥८१॥ ब्रह्मदत्तस्ततो वाराणस्यां कटकभूपतेः । पुत्रीं कटकवत्याख्यां लेभे स्वंगां चमूमपि ॥८२॥ तत्सैन्यैः सहितः सैन्यैर्नृपैश्व धनुमन्त्रियुक् । दीर्घ दीर्घपथे नेतुं प्रस्थितो ब्रह्मराजभूः ॥८३॥ ब्रह्मदत्तोऽयदन्त्य, कटके फटके से वीजेन, सार्द्ध त्यक्तुं न युज्यते ॥८४॥ कटकः प्राह कर्णेऽतिश्वपचं यस्य दुर्वचम् । मैत्रीकालुष्यकृत्तेन सार्द्धं गत्वेति तं वद ॥ ८५ ॥ काम्पिल्यं ब्रह्मभूर्गत्वा, सदीर्घ गुरुधे ततः । दीर्घ: | सर्वाभिसारेण, निःसंसार रणोन्मुखः ॥ ८६ ॥ पापपूर्णाऽपि सा पूर्णा, प्रवर्त्तिन्यन्तिके यतिः । चुलनी दुस्तपं तप्त्वा तपः सिद्धि क्रमादगात् ॥८७॥ ततो नासीरवीराणां संगरः कृतसंगरः । दारुणोऽभूत्तयोर्दूर, दीर्घ श्रीब्रह्मदत्तयोः ॥८८॥ संगरे चतुरंगेण, निजाङ्गेन तयोरथ । ब्रह्मदत्तकरं चक्रमाक्रामत् प्रक्रमं ततः ॥ ८९ ॥ प्रांतं स तेन दीर्घस्य, दीर्घरज्जोरिवाकरोत् । स्तुवन्तः पुष्टवृष्टिं च ब्रह्मदत्ते व्यधुः सुराः ॥९०॥ प्रविश्य स्वपुरं पत्नीः सर्वाश्चानीय सर्वतः । स्त्रीरत्नं कुरुमत्याख्याविख्यातं प्रत्यतिष्ठिपत् ॥९१॥ चक्री चक्रानुगो गत्वा, साधयित्वा च भारतम् । काम्पिल्यपुरमभ्येत्य प्रविवेश सविस्तरम् ॥९२॥ सच्चतुर्दशरत्नाधीशितुर्नवनिधीशितुः । राजभिर्विदधे तस्याभिषेको द्वादशाब्दिकः ' ॥९३॥ तपोवने सखा तस्य, द्विजः सोऽथ तमागतः । विधायोपानहां मालां, वंशाग्रध्वजकारकः ॥९४॥ तं दृष्ट्वा वेत्रिणं राजाऽपृच्छत्कोऽयं ? स चावदत् । द्वारस्थो द्वादशाब्दानि देव सेवामयं व्यधात् ॥ ९५ ॥ राजाऽथ प्राह किन्येतत् ? सोऽथाह भवता समम् । भ्राम्यतो मेऽथ संघृष्टा, एतावत्य उपानहः || ९६ || तथापि न प्रसन्नस्त्वं, प्रत्यभिज्ञाय तं नृपः । हसन्नस्खलितं चक्रे सेवायामन्यदाऽवदत् ॥९७॥ तुभ्यं ददामि
॥९॥