________________
श्री
अन्यथा स परमार्थः प्रव्रज्याविधानरूपः, अन्यथा चाधुना लोकानां चेष्टितं-विलसितं इदानी, किंच-आस्तामिदानी ऐव्रज्या० दयुगीनानामस्मादृशलोकानां, यत् तदापि श्रीवीरजगद्गुरुशिष्यत्वेऽपि एकन चरणेन स्थितोऽप्यूज़बाहुरातापयन्नपि अन्तर्मुहुर्तभाविकेजीप्रद्य- वलज्ञानोऽपि मनोव्यापारपारवश्याद् दुर्गतियोग्यः प्रसन्नचन्द्रोऽजनि, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-'अन्नच्चिये' त्यादि, अन्य एवं यवृत्तौ दन्ता गजवराणां युद्धादिविधुरावस्थासहायाः प्रकाशविशदाश्च, यत्तु चर्वणीयं वस्तु तदन्यैरेव मुखमध्यस्थैः कुष्ण (शै)श्चर्वयन्ति इति गाथार्थः ।
।। अथ तुर्यगाथया अमुमेवार्थ व्यनक्ति___ वंसी सुहेण छिज्नई कड्ढिज्जइ दुक्करं कुडंगाओ । पञ्चज्जा सुहगहिया सीलभरो दुव्वहो होइ ॥१८॥ (२०) ___वंशी-वंशजालिका सुखेन छिद्यते, यच्च कुडङ्गान् मिथोमिलती शाखा गहनात् कृष्यते तद् दुष्करं इति, प्रथम दृष्टान्तमुपन्यस्य दार्टान्तिकं योजयति-प्रव्रज्या सुखग्राह्या-सुखेनापि गृह्यते, शीलभर: अष्टादशसहस्रशीलांगभारो दुर्वहो भवति, स हि धन्यैरेबोह्यते, न सत्वघन्यैरिति गाथार्थः ।। किमिति दुर्वह इति पंचमगाथया कथयति
वुज्झन्ति नाम भारा तेच्चिय वुझंति वीसमंतेहिं । सीलभरो वोढयो जावज्जीब अवीसामो ॥१९॥ (२१) O ऊमंते नामेत्यासोक्तौ आमन्त्रणे बा, भाराः, ते च्चियशब्दस्य व्यवहितसम्बन्धात् उद्यन्ते विश्राम्यद्भिव, शीलभरो हि महादुर्बहो िबोढव्यो भवति इह जीविताबधि, विश्रामरहितो निरन्तरमित्यर्थः । अत्रार्थे सह्यगिरिसिद्धवतिवरस्य कथा, तथाहि
सह्यशैलस्योपत्यकानित्यमण्डनम् । समस्ति कोंकणं नाम, नगरं नगराजितम् ॥१॥ तस्य स्वामी नृपः सह्यशैले धान्यानि भूरिशः । आरोहयति वाहीकैरतो रोहयतेऽपि च ॥२॥ सुखासनसमारूढोऽन्यदा भूमीपतिर्गिरिम् । आरोहन्नायतोऽपश्यद्वाहीकान् भारभारितान् ॥३॥ भूरिभारभराक्रान्तांस्तानिरीक्ष्य नराधिपः । व्यतरद् वरमुद्भूतसद्भूतकरुणामयम् ॥४॥ मार्गो देवो मयाऽप्येषां, कस्याप्येमिः कदापि न । वरेण तेन तेऽभूवन्नतीव प्रमदस्पृशः ।।५॥ इतश्च सिन्धुदेशीयः, कश्चिद्यतिवरः परः । विषयेर्बाधितो बाद, प्रव्रज्याभारमत्यजत् ॥६॥ स शुद्धहृदयत्वेन, कृत्यकृत्यमिदं विदन् । दध्यौ स्वं दमयाम्युच्चैारवाहनकर्मभिः ॥७॥ यन्महामोहमाहात्म्यात्, तपसा संयमेन च । नात्मा
P
५७॥