________________
श्री
प्रव्रज्या
श्रीप्रद्युमीयवृत्ती
॥१५५॥
सादरा ।।१०५॥ सपल्याराधनाऽविष्टा, दुक्मिणी गणिनीगिरा । प्रनुध्य वाक्यभङ्गी तामङ्गीचक्रे गुरुदिताम् ॥ १०६ ॥ वज्रोज्यं तवतत्त्वाची, नयां धन गिरावभूत् । चाटुम्मिकायां रुक्मिण्यां यो भ्रात्रापि न यन्त्रितः ॥ १०७॥ रुक्मिणीदृष्टिकोटीभिः स्वर्णकोटीभिराययम् । न लुब्धो । लब्धिमान् यः श्रोवज्रायास्मै नमानमः ॥ १०८ ॥ इति व्यासार्थः ॥
अथ द्वितीयगाथामाह
अन्नह सा पव्वज्जा वज्जियसावज्जजोगकरणिज्जा अन्नह पमायबहुलो जीवो विनडेड अप्पाणं ॥
अन्यथा सा प्रव्रज्या वर्त्तते वर्जितसावद्यव्यापारैः करणीया, ये सपापव्यापारपरिहारिणस्तैः क्रियते प्रव्रज्या, नान्यैरिति भावः, अन्यथा प्रमादबहुल, प्रमादेन - कषायविकथारूपेण बहुलो-वेष्टितः कोऽसौ ? जीवः प्राणी आत्मानं विनटयति-विगोपयति, आसतां वचनशरीरव्यापाराः कषायप्रगल्भमनोमात्रव्यापारकषायवन्तोऽपि नरकगत्युपार्जनायोग्या भवन्तीत्यत्रार्थे श्रीप्रसन्नचन्द्रराजर्षिदृष्टान्तस्तथाहि | एकदा भवपाथोधिपोतः पोतनपत्तने । श्रीवीरो भव्यराजीववासरः समवासरत् ॥ १ ॥ प्रसन्नचन्द्रो निस्तन्द्रो, नरेन्द्रो धर्म्मकर्म्मसु । आययौ श्रीमहावीरं, वन्दितुं सपरिच्छदः ॥ २ ॥ स श्रुत्वा श्रुतिपीयूषदेशीयां देशनां विभोः । पुत्रं बालमपि न्यस्य, स्वराज्ये व्रतमाददे ||३|| समं । समंततः स्वामिपादैश्च विचरन्नयम् । कालेनाल्पेन राजर्षिर्दक्षः शिक्षामलक्षयत् ॥४॥ तेन राजर्षिणा सार्द्धमपरैरपि साधुभिः । स्वामी राजगृहं प्रापः पापद्रुमसमीरणः ||५|| तं ज्ञात्वा चालितामात्यश्रेणिकः श्रेणिको नृपः । वन्दनाय जगदुद्भर्तुश्चलितः कलितो मुदा ॥ ६ ॥ | आगच्छन् राजमार्गे च राजा राजन्निजश्रिया । प्रसन्नचन्द्रं राजर्षि, कायोत्सर्गस्थमैक्षत ||७|| स्थितं पदा तमेकेन, भुजेनोद्वकृतेन च । | सूर्यन्यस्तदृशं दृष्टाऽवातरद्वन्दितुं द्विपात् ॥८॥ दक्षः प्रदक्षिणीकृत्य, स्थिरचित्तं प्रणम्य च । जातरोमोद्गमश्रेणिः, श्रेणिको हृद्यचिन्तयत् ॥९॥ अयं स्थितः पदैकेन, यियासुरिव निर्वृतिम् । ऊर्ध्वस्थेन भुजेनास्या, दत्ते वा दक्षिणं करम् ॥ १० ॥ मन्ये तीव्रकरे बद्धस्पर्द्धस्तीव्रतरं तपः । तप्यतेऽसौ परित्यज्य, राज्यं राजर्षिरुत्तमः ॥ ११ ॥ धन्योऽयं विरतः सर्वसावद्यादुद्यतो व्रते । विरतिं काकमांसेऽपि कर्तु नाहं पुनः सहः ||१२|| ध्यायन्निति धराधीशः, स्रवदधुविलोचनः । पुनः प्रणम्य तं प्राप, श्रीमद्वीरक्रमौ नृपः ॥ १२ ॥ त्रिस्तान् प्रदक्षिणीकृत्य, प्रणिपत्योपविश्य च । पप्रच्छ स्वामिनं मौलिन्यस्तहस्ताग्रकुड्मलः || १४ || प्रभो ! प्रसन्नचन्द्रर्षिरभ्यवन्दि यदा मया । तदा विपद्य सद्यः की,
॥१५५॥