________________
तत्पृष्टा प्राह मित्रेष्टा, भर्ता यातो वणिज्यया । तद्गृहं च पुरा चार, जीर्णशीर्ण तदाऽस्ति तु ॥१३१॥ स्तम्भस्यैकम्य चाधस्तात, प्रव्रज्या०
पूर्वैरास्ते निधिः कृतः । तं च ज्ञानेन जानाति, स्थूलभद्रो गणाधिपः ।।१३२॥ स ततस्तमितः स्तम्भं, हस्तं कृत्वा जगाद ताम् । समग्रस्यापि श्रीप्रद्यु
संघस्य, पश्यतः शृण्वतस्तथा ॥१३३॥ इदमीदृक् च तत्तादृक्, पश्य कीदृगजायत? । इति मित्रगृहायातः, स्थूलभद्रस्तदाऽवदत् ॥१३४॥ सा मीयवत्तौ च सर्वजनोऽन्यथ, दध्यौ यद्भगवानयम् । जीर्णशीर्णगृहं वीक्ष्यानित्यतां कथयत्यलम् ॥१३५॥ कथितैस्तिथिभिस्तस्मिन्नायातेऽकथयच्च सा ।
*आयातः स्थूलभद्रोऽभूद्, गृहे संघयुतस्तव ।।१३६॥ स प्राह भणितं किञ्चिन्न किञ्चिदिति साऽवदत् । स्तम्भस्याभिमुखं हस्तं, दर्शयन्नित्ययं ४४ ॥१३७॥
foll जगौ ॥१३७।। इदमीदृक् च तत्तादृक्, पश्य कीदृगजायत ? । सुधीः स दध्यौ सद्बुद्धिचेष्टितं तस्य चेष्टितम् ॥१३८॥ इदमीदृग निधिप्रायं, ४ यत्तादृग भ्रमणं व्यधात् । पश्य कीदृगभून्मन्ये, धनं स्तम्भेऽस्ति किंचन ॥१३९|| ध्यात्वेति स खनन्नाप, स्तम्भाधो रत्नसम्भृतम् निधिं
सत्पात्रदानाद्यैः, सफलं विदधे च तम् ।।१४०॥ इत्थं न स्थूलभद्रेण, सोढो ज्ञानपरीषहः । तथा तथाऽपरैर्नैव, विधेयं शुद्धसूरिभिः ॥१४॥ अहो मोहस्य माहात्म्य, श्रुतकेबलिनोऽपि यत् । दृष्टान्तो व्यतिरेकेणाजनि ज्ञानपरीषहे ॥१४२॥ अन्वयेनैष दृष्टांतः, सोढव्ये स्त्रीपरीषहे। व्यतिरेकेण दृष्टान्त, पुनानगलीमहे ॥१४३॥
अथ सम्यक्तवपरीषहः, वत्सेष्वतुच्छशक्त्यादयः, आर्याषाढो गणाधिपः । बहुश्रुतोऽस्ति भव्यानामुद्यतः प्रतिवोधने ॥१॥ यो यः कालं करोत्यत्र, तं तं निर्यापयत्ययम् । वक्ति चैनं सुपर्वत्वे, दर्शनं देयमेव मे ॥२॥ इत्थं निर्यापिताः प्राज्या दिवः कश्चित्तु नागमत् ।।
तैरन्यदादरादिष्टः, स्वशिष्योऽप्येवमर्थितः ॥३॥ मूरिस्तत्राप्यनायाते, दध्यो कास्ति भवः परः ? । यत्कोऽपि नागतस्तस्माद्भोगेभ्यो वञ्चितो १० मुधा ॥४॥ इति मिथ्यात्वमापन्नो, लिंगमा ब्रतोऽभवत् । त्यक्त्वा गच्छं व्रतं त्यक्तुमनाः स प्रचचाल च ॥५॥ शिष्यदेवोऽवधेर्मत्वा, तान् O/ बोधयितुमागतः । चक्रे संवसथे दिव्यनटप्रेक्षाविकुवर्णम् ॥६॥ तत्प्रेक्षमाणः षण्मासी, गुरस्तृष्णां क्षुधं श्रमम् । देवानुभावान्नाज्ञासीदथ तां lion
संजहार सः ॥७॥ अटव्यां गच्छतोऽथास्य, परीक्षार्थ सुरो व्यधात् । षण्णां जीवनिकायानां, नाम्ना बालानलंकृतान् ॥८॥ तेष्वाचं पृथ्वीकायसंझं प्रेक्ष्य व्यचिन्तयत् । गृहीत्वाऽऽभरणान्यस्य, भुंजे भोगान् यथारचि ॥९॥ स याचितोऽप्यलङ्कारमददद्विधृतो गले । सो-M ऽवदच्छरणायातमटव्यां पाहि मां प्रभो ! ॥१०॥ विधुरं योऽवलम्बेतोद्धरेदापद्गतं तथा । रक्षेच्च शरणायातं, त्रिभिस्तैर्भूषिता हि भूः ॥११॥
-:.
5
=